पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०० श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. १. तत् संवत्सरमात्रमुषित्वा द्विधाऽकरोत् , अधस्ताद्भुमिमुपरिष्टादाकाशम् । मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात सहस्रबाहु- एवं ब्रह्माण्डसृष्टिरुक्ता। अथ हिरण्यगर्भोत्पत्तिमाह तत् संवत्सरमात्रमुषित्वा द्विधाऽकरोदिति ।। वक्ष्यमाणः पुरुषः तस्मिन्नण्डे संवसरमात्रमुषित्वा परिणतं तदण्डं द्विधाऽकरोदित्यर्थः । आकाशमिति ॥ अकरोदित्यन्वयः । आकाशदि(१)शब्दः स्वर्गादि(?)परः । मध्ये अन्तरिक्षे पुरुषः । अभूदिति शेषः । पुरुषशब्दस्य मनुष्यपरत्वव्यावृत्त्यर्थ दिव्यः पुरुष इत्युक्तम् । तस्याण्डोत्पन्नस्य दिव्यपुरुषस्य पुरुषसूक्तप्रतिपाद्यपरमपुरुषात्मकत्वमाह सहस्रशीर्षा पुरुष इति । अन्यथा द्वितीयपुरुषशब्दस्य पौनरुक्त्यप्रसङ्गात् । सर्वज्ञत्वात् सर्वशक्तित्वाच्च सर्वत्र शिरश्चक्षुःपादकार्यबाहुकार्यकरणसमथों यो महापुरुषः श्रुतः, तदात्मकोऽयमण्डोत्पन्नः पुरुष इत्यर्थः । इदश्च सामानाधिकरण्यं परमपुरुषान्तर्यामिकत्वनिबन्धनम् ; न तु स्वरूपैक्यकृतम् । 'तस्य ब्रह्मा बिभीते ' इति तस्य मृत्युभयाभिधानात् , 'भीषाऽस्मादग्निश्वेन्द्रश्च मृत्युर्धावति पञ्चमः ', ' स यश्चाय पुरुषे । यश्वासावादित्ये । स एकः' इति पुण्डरीकाक्षस्य परमपुरुषस्य, मृत्योरपि भयनिमित्तत्वाच्च मृत्योर्भीतस्य मृत्युभयजनकस्य च स्वरूपैक्यानुपपत्तेः । शाखान्तरे हिरण्यगर्भस्य, महापुरुषस्य महापुरुषत्वानभिज्ञत्वा- म्नानाच्च न स्वरूपैक्यम् । ‘स प्रजापतिरेकः पुष्करपर्णे समभवत् ' इत्यारभ्य, मम दृष्ट्वा सांख्यं पुराणादिकपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्यात् श्रमबहुलतयाऽप्यत्र तज्ज्ञैरुदासि ।। संवत्सरमात्रमिति मात्रशब्दः कार्त्स्यर्थिकः । पूर्ण संवत्सरमित्यर्थः । अधस्तादिति । अत्र मोक्षधर्मे (३१६), 'तो ब्रह्माणमसृजत् हैरण्याण्डसमुद्भवम् । सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम । संवत्सरमुषित्वाऽण्डे निष्क्रम्य च महामुनिः । संदधेऽर्ध महीं कर्त्स्नां दिवमर्ध प्रजापतिः । द्यावापृथिव्योरित्येष राजन् वेदेषु पठ्यते। तयो शकलयोर्मध्यमाकाशमकरोत् प्रभुः इति । मनुश्च - ' तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात् तदण्डमकरोत् द्विधा । ताभ्यां स शकलाभ्याश्च दिव भूमि व निर्ममे । मध्ये व्योम' (१.१२.) इति । ननु दिव्यो देव एको नारायण इति नारायणे दिव्यशब्दप्रयोगस्यात्रोपनिषदि श्रवणात् वाक्यमिदं परमात्मपरमेषास्तु, कृतं चतुर्मुखविपक्षयेत्यत्राह अन्यथा द्वितीय पुरुषेति । . 1