पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २०१ रिति । सोऽग्रे भूतानां मृत्युमसृजत् पक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुम् । वै त्वङ्गांसा समभूत् ' इति प्रजापतिनोक्ते, 'नेत्यत्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत् पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः' इति चतुर्मुखस्य परमपुरुषवेदनं हि पतिपादितम् । अत एव युक्तं ब्रह्मणैव, यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥' इति ।। तथा तेनैव ब्रह्मरुद्रसंवादेऽप्युक्तम्--- 'तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् । इति । अतः तदन्तर्यामित्वनिबन्धनं सामानाधिकरण्यम् । इतिशब्दो भगवदेकर्तृकसर्गसमाप्तौ । अथ हिरण्यगर्भकर्तृकसर्गमाह सोऽग्रे भूतानां मृत्युमसृजदिति । मृत्यु नेत्यब्रवीदिति । पुष्करपर्णे जातेन प्रजापतिना स्वकीयमांसनखवालोत्पन्नवातरशन वैखानस बालखिल्यन्यायेन अपामन्तः कूर्म भूतं सर्पन्तमपि स्वत्वङ्मांसाभ्यां संभूतममिमत्योक्ते, स कूर्म. तदुक्तं न्यषेधीदित्यर्थः । सहस्रशीर्षा पुरुष इत्यस्य तत्र 'भूत्वोदतिष्ठत् ' (तै-मा-अ- १ २३.) इत्युत्तरत्रान्यवयः । रूण्डपरशुमिति । खण्डकपरशुविशिष्टमित्यर्थः स्यात् । रुद्रसृष्टिस्तु, 'ललाटात् क्रोधजो रुद्रो जायते' इत्युत्तरत्र वक्ष्यते। सोग्रे इति । नन्वत्र प्रथमपुरुषशब्दः चतुर्मुखान्तर्यामिपरः, दिव्य इत्यादि नारायणपरमि- त्यपि सुवचम् । तदयं तच्छन्दः परमपुरुषपर एष किं न स्यात् । तत्कर्तृकैव सृष्टिः चतुर्मुखस्येव मृत्युप्रभूतीनां सर्वाणि च भूतानीत्यन्तानामुच्यताम् । चतुर्मुखकर्तृकसृष्टिस्तु, हिरण्यज्योतिरित्यारभ्योपरि वक्ष्यमाणा परमस्तु । एवञ्च ब्राह्मणक्षत्रियादीनां भगवदवयवोत्पन्नत्वं सिद्धयति । प्रसिद्धं हि भगवतोऽवयवानामेव तथात्वम् , 'स्त्रीरत्नकारणमुपात्ततृतीयवर्ण दैत्येन्द्रवीरशयन दयितोपधानम् । देवेश यौवनगजेन्द्रकराभिराममूरीकरोतु भवदूरुयुगं मनो मे', 'सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः' इत्यादौ । यद्ययं स इति शब्दो ब्रह्मार्थकोऽभविष्यत् , तर्हि उपरि, तस्य ब्रह्मा बिमीते, सो ब्रह्माणमेव विवेश' इत्यत्रापि पूर्ववत् , 'तस्य स बिभीते. स तमेव विवेश' इति तच्छब्द एव प्रायोक्ष्यत । न च मनुवचनविरोध इति शक्यम् - -तत्र चतुर्मुखजन्यमनुजन्यत्वस्य प्रजापत्यादिषु कथमाद्यनेकवैलक्षण्यदर्शनेन स इत्यस्य चतुर्मुखार्थकत्वेऽपि विरोध- 26 - ..