पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुत्ता [सुबालोप. १. तस्य ब्रह्मा विभीते। सो ब्रह्माणमेव विवेश । स मानसान् सप्त पुत्रानसृजत् । तं ह विराजः सप्त मानसानसृजन् । ते ह प्रजापतयः । विशिनष्टि व्यक्षमित्यादिपदैः। तस्य ब्रह्मा विभीते । तस्येति संबन्धमात्रे षष्ठी । तस्मात् मृत्योर्भीतः । लघुरपि भयावहो मृत्युः ; किमुत अन्येषामित्यर्थः । सो ब्रह्माणमेव विवेशेति । सो ब्रह्माणमिति सन्धिश्छान्दसः । ब्रह्मशरीरे तिरोहित इत्यर्थः । स मानसानिति । सः ब्रह्मा सप्त मानसानसृजत् । मनसाऽसृजदित्यर्थः । ते ह विराजः विविधदीप्तियोगात् विराट्छन्दवाच्यभूताः सप्त मानसपुत्राः स्वयमपि मानसानसृजन् । कथं मनसा सृष्टिरित्यत्राह ते ह प्रजापतय इति । प्रजापतित्वात् मनसा स्रष्टुं शक्ता हीत्यर्थः । .. + परिहाराभावात् । पुरुषसूक्तं तु कतमस्य पक्षस्य साधकमिति विमर्शपदं नातिक्रमति । महाप्रलयानन्तरभाविप्रथमसृष्टि प्रकरणत्वाच्चास्य सर्वस्य परब्रह्मजन्यत्ववर्णनपरत्वं युज्यते, यदिदं नामसहस्रभाष्येऽभाषिषत, 'यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ' इत्यत्र--, “यद्यपि ब्रह्मसर्गादुपरि, अवान्तरसर्गे च ब्रह्मादिमुक्तेन सृजति, अथापि प्रथमसृष्टौ न तथेति सूचयति आदियुगागमे इति" इति । देवनायकपञ्चाशत्येव च स्त्रीरत्नमित्यादिवत् 'वेदेषु निर्जरपुते निखिलेषुधीतं व्यासादिभिर्बहुमतं तव सूक्तमग्रयम् । अङ्गान्यमूनि भवतः सुभगान्यधीते विश्व विभो जनितवन्ति विरिञ्च पूवम्' इत्यपि द्रष्टव्यम् । अतो ब्रह्मद्वितीयदिनादिरूपेषु कल्पेषु चतुर्मुखैकसृष्टत्वेऽपि सर्वेषाम् , आदौ परमपुरुषजन्यत्वं भूतानामुपपन्नमिति चेत्-अस्तु परमपुरुषकर्तृकाऽप्यादिसृष्टिरनेकेषां भूतानाम्-अथापि प्रकृतवाक्ये स इति स एव ग्राह्य इति न विशेषगमकमस्ति । प्रत्युत, सहस्रबाहुरिति इति इतिशब्देन भगदेकर्तृकसृष्टिसमाप्तिद्योतनात् , पूर्वं मध्ये पुरुष इति ब्रह्मान्तर्यामितया गृहीतस्य सोऽग्रे इति स इत्यनेन ग्रहणौचित्याच्च चतुर्मुखसृष्टत्वमेव मृत्युप्रभृतीनाम् । अत एव सोब्रह्माणमेव इति एवकारोऽपि संगच्छते । स्वस्य स्रष्टारमेव स्वयं हन्त मृत्युः प्रविवेशेति वर्णनपरत्वात् तस्य । तदुपरि प्रजापतयः सृज्यमाना अपि चतुर्मुखजन्यत्वेन प्रसिद्धाः; न भगवत्पुत्रतया । द्वितीयखण्डे स्रीपुरुषरूपद्वैधकरणानन्तरसृष्टिस्तु शंस्यमाना चतुर्मुखजन्यमनुसृष्टित्वेन संभावनमर्हति, बृहदारण्यकानुरोधात् । एवञ्च, ललाटात् क्रोधजो रुद्र इत्यत्र, 'अस्यैव चानुजो रुद्रो ललाटात् यः समुत्थितः' इत्युपबृंहणानुसारमुपेक्ष्य रुद्रे ब्रह्मजन्यत्वं प्रमाणान्तरानुसारेण ग्राह्यम् । महतो भूतस्य निश्वसितमित्याद्यपि मैत्रेयीविद्यायामिव साक्षात्परमात्मनिःश्वसितरूपं प्रतीतमपि इह तथा न ग्राह्यमित्यलम् । n