पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

मुबालोपनिषत् २०३ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत । चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च हृदयात् सर्वमिदं जायते ॥ इति प्रथमः खण्डः ।। अथ द्वितीयः खण्डः ॥ अपानान्निषादा यक्षराक्षसगन्धर्वाश्व, अस्थिभ्यः पर्वता लोमभ्य ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत(जायते) । पुनश्च हिरण्यगर्भात् प्राणिसृष्टिमाह --- ब्राह्मणोऽस्य मुखमासी दिति । ब्राह्मणः मुखमासीदित्यौपचारिक सामानाधिकरण्यम् । मुखजात इत्यर्थः । पद्भ्यां शुद्र इत्यनन्तरोक्तेः । बाहू राजन्यः कृतः । बाहुभ्यां कृतः तज्जनित इत्यर्थः । ऊरु तदस्य यद्वैश्यः । [यदिति नपुंसकं वस्तुत्वाभिप्रायम् । वैश्य इति यत् तदस्य ब्रह्मणः ऊरू ऊरूभ्यां जातमित्यर्थः । प्राणः पञ्चवृत्तिप्राणः । हृदयात् संकल्पादित्यर्थः । सर्वमिदम् = अनुक्तं सर्वमिदम् ! इति श्रीहरितकुलतिलकवाग्विजयिस्नोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासा- परनामधेयस्य श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे प्रथमः खण्डः ॥ ॥ श्रीसुदर्शनार्यमहादेशिकाय नमः ।। अथानुक्तसर्गप्रपञ्चपूर्वक प्रळय उच्यते अपानादिति । मनुष्येषु निकृष्टाः निषादाः, देवयोन्यवान्तरभेदाः यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्यापानादजायन्तेति अध्याहारेण वा अजायतेति पदस्य विपरिणामेन वा अन्वयः । ललाटात् कोधज इति । रूद्रोत्पत्तौ चतुर्मुखस्य मनोवृत्तिषु क्रोधः, अवयवेषु ललाटश्च हेतुः । ब्रह्मणः पुत्राय नमः ' इत्यादिष्वपि क्रोधात् ललाटोद्भवतया पुत्रत्वमेतदैकार्थ्येन सिद्धमं । ननु हिरण्यज्योतिरित्याभ्य वक्ष्यमाणा विलक्षणसृष्टरत्र खण्डे युक्ता । ततः पूर्वमुच्यमाना तु पूर्वखण्डे । सत्यम् -- सृष्टिरियं परमपुरुषकर्तृकाऽपि कदाचित् , कदाचिच्चतुर्मुखकतृकाडपीस्यव्यवस्थासूचनार्थेवम् ।