पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

- . २०४ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. २. तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि)तं ज्योतिषामयनंन्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि । हिरण्यज्योतिर्यस्मिन्नयमात्माऽधिक्षीयन्ति भुवनानि विश्वा, आत्मानं द्विधाऽकरोत् , अर्धेन स्त्री अर्धेन पुरुषः । देवो भूत्वा देवानसृजदृषिर्भूत्वा ऋषीन् , यक्षराक्षसगन्धर्वान् , ग्राम्यानारण्यान् पशूनसृजत् । इतरा गौरितरो ऽनडानितरा बडवेतरोऽश्व इतरा गर्दभीतरो गर्दम इतरा विश्वम्भरी इतरो विश्वम्भरः। अथ शास्त्रप्रवर्तनमाह तस्यैतस्येति । तस्य अण्डसंभवस्य एतस्य देवादिस्रप्टुर्हिरण्यगर्भस्येत्यर्थः । महतो भूतस्येति परमात्मवाचिशब्देन सामानाधिकरण्यात हिरण्यगर्भकर्तृकस्य सर्वस्य भगवदधीनत्वं ज्ञाप्यते। 'महद्भूतमनन्तमपारम्', 'एतस्य वा अक्षरस्य महतो भूतस्ये ति, ‘एको विष्णुर्महद्भूत' मिति च श्रुतिस्मृतिषु महद्भूतशब्दयोः भगवति प्रसिद्धिरविगीता। निश्वसितमिति ततः प्रवृत्तत्वं विवक्षितम् । सर्वाणि च [तानीमानि] भूतानि निश्वसितमित्यन्वयः । भूतशब्दः शरीरपरः । हिरण्यज्योतिरित्यादि । हिरण्यसमानं ज्योतिः यस्य सः हिरण्यज्योतिरित्यात्मविशेषणम् । यस्मिन् विश्वा भुवनानि अधिक्षीयन्ति - वश्यतया स्थितानि, सोऽयं हिरण्यज्योतिरात्मा = हिरण्यगर्भः आत्मानं द्विधाऽकरोदित्यन्वयः । कथं? अर्धांशेन स्त्री अर्धांशेन पुरुषः । अभूदिति शेषः । शरीरिणः स्रष्टुं ब्रह्मा स्वांशाभ्यां तत्तज्जातीयः पुरुषोऽभूत् , तत्तज्जातीया स्त्री चाभूदित्यर्थः । तदेव प्रपञ्चयति देवो भूत्वा देवानसृजदित्यादिना । यक्षराक्षसगन्धर्वानिति । तज्जातीयः पुमान् भूत्वा ऽसृजदिति प्रकरणवशादवगम्यते । ग्राम्यारण्यपशुसृष्टिं प्रपञ्चयति इतरा गौरित्यादिना । इतरा पूर्व ब्रह्मणा स्वांशेन सृष्टा स्त्री गौरभवत् । इतरः तत्कल्पितः पुरुषोऽनडान् पुङ्गवोऽभूत् । गोजातीयसृष्टयर्थमित्यर्थः । इतरा वडवा इतरोऽश्व इत्यादेरप्येवं योजना । बढवा तुरगस्त्री । विश्वम्भरी भारवहा उष्ट्री । अर्थान्तरमन्वेष्टव्यम् ।