पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

. " सुबालोपनिषत् २०५ सोऽन्ते वैश्वानरो भृत्वा संदग्धे (स दग्धे !) सर्वाणि भूतानि । पृथिव्यप्सु प्रलीयते । आपस्तेजसि लीयन्ते। तेजो वायौ लीयते। वायुराकाशे लीयते । अथ प्रळयं प्रतिपादयति सोऽन्ते इत्यादिना । सः हिरण्यगर्भरूपः परमपुरुषः अन्ते स्थितिकालसमाप्तौ वैश्वानरः कालाग्निर्भूत्वा सर्वाणि भूतानि कार्यजातानि संदग्धे(1) दहति = धक्ष्यतीत्यर्थः । भवनदहन क्रिययोर्भेदात् स इति द्विरुक्तिः । दाहानन्तरं प्रळयमाह पृथिव्यप्सु प्रलीयत इति । पूर्वावस्थाप्रहाणेन कारणसंसर्गो लयः । ‘लीङ् श्लेषणे' इति हि धातुः । कार्यस्य तदुपयुक्तकारणद्रव्यांश उपादानम् । तदतिरिक्तांशस्वपादानम् । तदपेक्षया कार्यस्य विभागव्यपदेशः । अतः पञ्चम्यन्तेन उच्यते । अपादानं (उपादानं ) त्यक्तकार्यावस्थ द्रव्यमपादानेन संसृष्टं भवति । तस्य तदानीम्, घटस्य भूतलवत् अधिकरणत्वादपादानमेव सप्तम्यन्ते. नोच्यते । अपादानस्योपादानद्रव्यसजातीयत्वात् , 'कारणे लय । इति व्यपदेशः । पृथिव्यप्सु प्रलीयते । पृथिवी पृथिवीत्वावस्थां तदुपक्रमभूतां गन्धतन्मात्रावस्थाञ्च हित्वा अम्ब्ववस्था सती प्रागवस्थितेषु समुद्रादिजलेषु संसृष्टा भवतीत्यर्थः । स च संसर्गः समानाकारयोर्निरन्तरसंश्लेषरूपत्वादैक्यमित्युच्यते । शुक्लगो (?) क्षीरे कपिलादिगो()क्षीरं संसृष्टमेकीभूतमिति व्यपदिश्यते । आपस्तेजसि लीयन्त इत्यादिवाक्यानामपि अयमेवार्थः । त्यक्तजलावस्थस्य त्यक्तरसतन्मात्रावस्थस्य च द्रव्यस्य तेजोवस्थापन्नस्य प्रागवस्थिततेजस्संपर्को लयः । एवमुत्तरत्राप्यनुसन्धेयम् एतत् सर्वं भगवता पराशरेण स्पष्टमुक्तम् 'आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मक गुणम् । आत्तगन्धा ततो भूमिः प्रळयत्वाय कल्पते । कालाग्निरिति । श्रीविष्णुपुराणे द्रष्टव्यमिदम । ६.३.)। एतत् सर्वमिति । विवेचितलयशब्दार्थाधिगमोपयिकोऽर्थः, तत्रतत्र तन्मात्रद्वारकत्वच्चेत्यर्थः । आपो ग्रसन्तीति श्लोकः पृथिव्याः गुणापक्षयवर्णनेन तस्याः प्रलयोन्मुख्यं दर्शयति ।' लोके विलीयमानस्य सामहानि -- मावशैषिस्य - कमिकलासादिपर्वमेव विमानात् 1