पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. २. , 1 प्रणष्टे गन्धतन्मात्रे भक्त्युवीं जलात्मिका । आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः । सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ' इति, तथा, 'नश्यन्त्यापः पुनस्ताश्च रसतन्मात्रसंक्षयात् । ततश्चापो हृतरसाः ज्योतिष्टुं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते । स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तथा । प्रणष्टे रूपतन्मात्रे हृतरूपो विभावसुः । प्रशाम्यति तथा ज्योतिर्वायुदोंधूयते महान् । निरालोके तदा लोके वायववस्थे च तेजसि' इत्यादिना ।। अल, ' प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिके ' त्यनेन स्थूलपृथिव्या एव गन्धतन्मात्रावस्थाप्रहाणेन जलत्वापत्तिरुक्ता । — आपस्तदा प्रवृद्धास्तु' इत्यनेन प्राग वस्थितानामपां पृथिव्यवस्थान्तररूपसलिलान्तरसंसर्गात् तदेकीभूततया प्रवृद्धत्वमुक्तम् । 'सर्वमापूरयन्ती ' ति पूर्वपृथिव्याक्रान्तप्रदेशस्यापि सकलिलस्याऽऽपूरितत्वमुक्तम् । एवमग्न्यवस्थ जलस्यापि रसतन्मात्रावस्थाप्रहाणेन ज्योतिष्ठापत्तिः कण्ठोक्ता- अग्न्यवस्थे तु सलिले तेजसा सर्वता वृते ' इति । । अग्न्यवस्थे सलिले : ] औज्वल्यगुणेनाऽऽवृते सति प्रागवस्थितो ह्यग्निः सर्वतो व्याप्य-पूर्वजलसंसृष्टमपि प्रदेशं व्याप्य तज्जलमग्न्यवस्थमादत्ते = स्वात्मनैकीकरोतीत्यर्थः । 'प्रणष्टे रूपतन्मात्रे' इत्यादिना अग्नेरपि तन्मात्रावस्थाप्रहाणेन वायुत्वापत्तिः, तेनैकी भावात् प्रागवस्थितस्य वायोरतिमहत्त्वापत्तिश्च प्रतिपादिता । एवमुपबृंहणानुगृहीतत्वात् पृथिव्यप्सु प्रलीयत इत्यादिवाक्यानां यथोक्त एवार्थः । गन्धस्य च सारगुणत्वात् तथोक्तिः । प्रनष्ट इत्यादिना च पृथियाः गन्धतन्त्रलयद्वारा वारिभावो वर्णितः । यद्वा आपो प्रसन्तीति पूर्वार्धं गन्धतन्मात्रस्य स्वस्मिन् विलापने अपां प्रवृत्तिं दर्शयति । उत्तरार्धश्च अत एव पृथिव्याः गन्धतन्मात्रद्वारा जले विलयपरम् । सकळिलस्येति । कलिलादेन ब्रह्माण्डान्तर्गतसर्वलोकग्रहणम् । 5