पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानान्तर्नियन्तुः श्रितरम ! तव निध्यानमित्थम्विधत्व- न्माहात्म्यञ्चाप्यधीतेः फलमिह च शिरः सप्तभिः प्राह खण्डैः ॥ १४३

रुद्रो भस्मावृताङ्गो विसदृगनिमिषैर्विस्मितैः को भवानि- त्युक्तः स्वं साधुवृत्तं गमयितुमगदन्नित्यसर्वात्मतां स्वाम् । स स्वस्मादन्तरं त्वामपि बहिरखिलाद् वीक्ष्य लक्ष्मीश ! सोऽहं सर्वोऽप्यन्योन्यभिन्नोऽहमिति दृढमतिस्तैश्च वेद्यं स्वमाह ॥ १४४

त्वद्रूपस्तत्त्वदृष्टया श्रितरम ! विबुधैर्वन्दितोऽसौ ततस्त्वां तस्यात्मानं विदन् सन् भसितविलसितः शान्तिमत्यन्तमेति । तारस्त्वद्ध्यानमन्त्रः, विदधति विधिविष्ण्वीशलोकाप्तिमेत- न्मात्राः तुर्यार्धमात्रा पुनरिह तनुतेऽनामयत्वत्पदाप्तिम् ॥

कौषीतक्युपनिषत् रागादिष्टं ध्रुवेष्टं किमपि चरितवांश्चित्रवत् चन्द्रमाप्तः तत्पुष्टोऽथो विसृष्टः प्रतिवचनवशात् प्राच्यविद्याबलेन । वृष्टयाद्यापत्त्यनर्हः स्वयमतिगतवान् अर्चिराद्यध्वशेषं संकल्पाद् ब्रह्मलोके त्वरमपि विरजां श्रीश ! तीर्त्वाऽऽसतिल्यः ॥ १४६

प्रत्युद्यच्चूर्णमालाञ्जनवसनफणानेतृदिव्याप्सरस्त्री- क्लृप्तालङ्कारदेहः क्रमसमुपनतब्रह्मगन्धादिरा़ढ्यः । पर्यङ्के सोऽमितौजस्यतिमहति सुखोपस्तरे त्वां निषष्णं पश्यन् आरुह्य सत्योत्तर उदितभवतुल्यभोगो विभाति ॥ १४७

स्थानेष्वादित्यमुख्येष्विह तव लसतो मूलरूपं स्थिरं तत् कौषीतक्युक्तभूमन् ! श्रितरम ! महिते मप्टपे भ्राजमानम् । आसन्धामद्भुतांशोज्ज्वलमृदुमधुरास्तारपर्यङ्कमध्ये ध्यातुं लक्ष्मीसमेतं त्वरयति परमार्थाय पर्यङ्कविद्या ।। १४८