पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत्

आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु । प्राणस्तेजोमयी वाक्', आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेष्विति । अत्र इन्द्रियाणि तन्मात्राणि च न लयस्थानत्वेन विवक्षितानि । इन्द्रियाणामाकाशवरणत्वाभावात् ; तन्मात्राणामिन्द्रियकारणत्वाभावात् । प्रलीयत इति पदाश्रवणाञ्च । अत एव लयशब्दानुषङ्गश्च न युक्तः । प्रथमेतरसर्ववाक्येष्वनुषङ्गश्चेत्, मध्यगतवाक्यष्वेऽपि अनुषङ्गः स्यात् । पूर्वापरवाक्येषु सर्वेषु लयवाचिपदस्य पठितत्वात् मध्येऽनुषङ्गोचितः । अतो लयपदाश्रवणं लयस्याविवक्षितत्वं दर्शयति । अतः संसर्गमात्रमेव विवक्षितम् । नन्वाकाशस्येन्द्रियसंयोगः प्रागप्यस्तीति प्रळयदशायां तदुक्तिवैयर्थ्यमिति चेत् - न] इह विवक्षितस्य संसर्गस्य प्रागसिद्धत्वात् । मनआदीनामिन्द्रियाणां हि पृथिव्यादिभूतैराप्यायन श्रुतिस्मृतिषु प्रसिद्धम् , ' अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् 'श्रोत्रं नभो प्राणमुक्तं पृथिव्याः' इत्यारभ्य, वाग्वात्मकं स्पर्शनमामनन्ति,' 'नभः श्रोत्रञ्च तन्मय मित्यादिषु । तत्र पृथिव्यादिषु वायुपर्यन्तेषु प्रलीनेषु तत्तदिन्द्रियाप्यायकभूतांशानामपि प्रलीनतया तेषामाकाशतापन्नत्वात् सर्वैप्वपीन्द्रियेषु स्वान्तर्गतेतरभूतमाकाशमेव संसर्गितयाऽवस्थितम् ; न तु पृथिव्यादीत्यर्थः । अथ इन्द्रियाणामाकाशस्य च अहङ्कारकार्यत्वात् सेन्द्रियस्य स्वान्तर्गतेतरभूतचतुष्टयस्याकाशस्य तत्र लयं वक्तुम् , आकाशस्य तन्मात्रावस्थापन्नस्यैवेन्द्रियसंसर्गमाह - इन्द्रियाणि तन्मात्रेष्विति । पूर्वमाकाशसंमृष्टानीन्द्रियाणि पश्चात् शब्दतन्मात्रेषु संसृष्टानीत्यर्थः । परित्यक्ततन्मात्रावस्थतया पृथिव्यादिषु प्रलीनेषु गन्धतन्मात्रादीनामवस्थानानुपपत्तेः शब्दतन्मात्रमेव तन्मात्रशब्देन विवक्षितम् । तत्तदिन्द्रियाप्यायकपृथिव्यादिभूतांशानामपि स्वस्वकारणतत्वलयक्रमेण शब्दतन्मात्रतापन्नत्वात् तत्तदंशेन भेदविवक्षायां बहुवचनम् । एतदुक्तं भवति -इन्द्रियाप्यायकभूतानां सर्वेषां आकाशतापन्नत्वात् आकाशस्यैवेन्द्रियेषु संसर्ग आसीत् । पञ्चानामपि भूतानां शब्दतन्मात्रतापन्नत्वात् इन्द्रियाणि शब्दतन्मात्रभेदेषु संसृष्टान्यासन्निति । -