पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

- २०८ श्रीश्रुताकाशिकाचार्यविरचितभाप्ययुक्ता सुबालोप. २. तन्मात्राणि भूतादौ लीयन्ते। अथ सेन्द्रियिाणां शब्दतन्मात्रांशानां स्वकारणे प्रळयमाह तन्मात्राणि भृतादौ लीयन्ते इति। भूतादिशब्दोऽहङ्कारमात्रपरः । इन्द्रियाणां सात्त्विकाहंकारकार्यतया तस्मिन्नंशे लयोपपत्तेः । तामसाहंकारांशे लयानुपपत्तेश्च । यद्वा-अण्डान्तर्गस्य भूतचतुष्टयस्य स्वस्वतन्मात्रलयक्रमणाकाशतापत्तिराकरस्येन्द्रियसंसर्गश्चोक्तौ । अथ तेनाकाशेन सह अण्डात् बहिरावरणत्वेनावस्थितनां भूतानां तन्मात्रावस्थापत्तिरूपं प्रळयमिन्द्रियसंसर्गचाह इन्द्रियाणि तन्मात्रेष्विति ।। ब्रह्माण्डतदवरणरूपेणावस्थितानि पृथिव्यादीनि भूतानि स्वस्वकारणे प्रलीयमानानि तन्मात्रावस्थां क्रमेणापन्नानि भवन्ति । तेषु तन्मात्रेष्विन्द्रियवर्गः क्रमेण संसृष्ट इत्यर्थः । अथाण्डोदरतद्वहिर्भागावस्थितमहाभूतकारणानां साधारणं प्रळयमाह तन्मात्राणि भूतादौ लीयन्त इति । तानि तन्मात्राणि साक्षात् परम्परया च स्वकारणभूतेऽहङ्कारे साक्षात् परम्परया च लीयन्त इत्यर्थः । अयमर्थो भगवता पराशरेण स्पष्टमुक्तः, 'आपो ग्रसन्ति वै पूर्वं भूमेगन्धात्मक गुणमित्यादिना अण्डान्तर्गतानां तत्त्वानामव्यक्तपर्यन्तं प्रळयमुक्त्वा, अहङ्कारमात्रपरः इति कृत्स्नाहङ्कारपरः; न तु महाभूतकारणतामसाहङ्कारमात्रपर इत्यर्थः । तन्मात्राणीति निर्देशानुसारेण भूतादौ इति निर्देशः कृतः । अत्र तन्मात्रपदस्य पूर्ववाक्यानुसारेण सेन्द्रियतन्मात्रपरत्वे सिद्धे भूतादिपदमपि सात्त्विकाहङ्कारविशिष्टभूतादिपरं सुग्रहम्, ग्राह्यच्चेति भावः। तन्मात्रेषु, तन्मात्राणीति बहुवचनोपपत्तिसंपादकं पक्षान्तरमाह यद्वेति । पूर्वोक्ते पक्षे, पृथिव्यप्सु प्रलीयत इत्यादिवाक्यानामविशेषेण ब्रह्माण्डान्तर्वर्तितदावरणोभयरूपमहाभूतविख्यपरत्वं सुवचम् । अस्मिंस्तु पक्षे अन्तर्वर्तिभूतमात्रलयपरत्वम् । अन्यथा बहिर्वतिपृथिव्यादिलयस्यापि विवक्षित्वे अवादिलयात् प्रागेव गन्धतन्मात्रादिलयस्यापि निष्पन्नतया आवरणभूताकाशमात्रस्य परिशिष्टतया तस्य, 'आकाशमिन्द्रियेषु' इति इन्द्रियसंसर्गे कथ्यमाने तदा आकाशकारणभूतं शब्दतन्मात्रमेव स्थितमिति, इन्द्रियाणि तन्मात्रेषु' इति बहुवचनानुपपत्तिर्हि तदवस्था स्यात् । एवाण्डान्तर्वर्तिषु भूतेषु आकाशमात्रपरिशेषः प्रथममुक्तः । अथ तस्येन्द्रियेषु संसर्गः । अथ चान्डकटाहरूपपृथिव्याः तदावरणपरम्परान्तर्गतानां जलादीनाच्च लये जायमाने तत्तदभूतलयाधारतत्तत्तन्मात्रसंबन्धः क्रमेण भवतीति इन्द्रियाणि तन्मात्रेषु इति बहुवचनोपपत्तिरस्मिन् पक्षे इति भावः । सोन्ते वैश्वानर इति पूर्ववाक्यश्च व्यष्टिमात्रविषयकमिति । - 6