पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् ननु अण्डान्वर्तिपृथिव्यादिलयानन्तरमाकाशस्येन्द्रियसंसर्गः आकाशमिन्द्रियेषु इत्यनेनोक्तः । तदनन्तरमिन्द्रियसंसर्गः तन्मात्रेष्विति, इन्द्रियाणि तन्मात्रेष्वित्यनेन वक्तव्यम् । नैतत् सुवचम् । आकाशपरिवेष्णात् प्रागेव गन्धतन्मात्रादीनां नष्टतया आकाशसंसर्गानन्तरमिन्द्रियाणां सर्वतन्मात्रेषु संसर्गकानयोगादित्यत्राह अव्यक्तपर्यन्तं प्रलयमुक्त्वेति । अण्डान्तर्वर्तिनामव्यक्तपर्यन्तं प्रलयः पचति । तदनन्तरमेवाऽऽवरणभूतानां लय इति विष्णुपुराणप्रामाण्यादङ्गीकर्तव्यम् | अत इन्द्रिाणां तन्मात्रेषु क्रमेण आवरणान्तर्गतेषु सर्वेषु संसर्गोपपत्तिरिति । नन्विदमिह मिश्या--विष्णुपुराणे अण्डान्तः अव्यक्तापर्यन्तलयं पूर्वमुपवण्यं पश्चाद् बाह्यपदार्थलयवर्णनेऽपि लयवर्णनपौर्वापर्यस्येह लयपौर्वापर्यकल्पकत्वे मानाभावः । न हि अण्डान्तर्वतिकारणभूतमहदहारापेक्षा बाह्यानां तेषां पृथगव्यक्तादुत्पद्यमानत्वमस्ति । एक एव हि महान् ; एक एव च सात्त्विकारहङ्कारः । अतो बाह्यापृथ्व्यादिलयात् प्रागेव अण्डान्तर्वर्तिलयकाल एवाव्यक्तपर्यन्त्यसर्वलयकपन न युक्तम् । किञ्च तथा कल्पने अण्डातर्वार्त्याकाशसंसृष्टानामिन्द्रियाणामाकाशेन वह भूतादं लयस्तदैव संपन्नः; बहिर्वर्तिमात्रस्य तु पश्चादिति वर्णनस्यैव युक्तत्वात् तेषामिन्द्रियाणां बाह्यतन्मात्रेषु संसर्गकल्पनं तत एव भूतादिलयवर्णनश्वेह श्रुतं नोपपद्येत । अतः अण्डान्वैर्तिपृथिवीलयकाल एव बहिः पृथिवीलयोऽपि । एवं तत्तद्भूतलयोऽप्युभयत्र युगपदेव । तश्चाकाशस्योन्द्रयेषु संसर्गकाले बहिरप्याकाशमात्रमेवावस्थितमिति तदनन्तरः तन्मात्रे इन्द्रियसंसर्ग शब्दतन्मात्र एवं भवितुमर्हति । अनन्तरमेव तु सकृत् अहङ्कारस्य, ततो महतश्च लयो यथाश्रुते । न च ' इन्द्रियाणि तन्मात्रेषु' इत्यनेन आकाशेन्द्रियसंसर्गात् पूर्वं गन्धतन्मात्रादिभिरद्रियसंसर्गः, पश्चात् शब्दतन्मात्रेण च सोऽभिधीयत इत्येवास्त्विति वाच्यम्- तथासति पूर्वस्मिन् क्षेऽपि तन्मात्राणीति बहुवचनसमर्थनस्य तुल्यतया तत्र तत्त्यागायोगात् । अत आकाशेन्द्रियसंसर्गान्तर सर्वतन्मात्रसंसर्ग इन्द्रियाणां वक्तव्यश्चत् , अन्य एष पन्था आश्रयणीयः। कोऽसाविति चेत्- उच्यते । अहङ्कारात् शब्दतन्मात्रमात्रे जाते तदुत्पान्नादाकाशतः एकैकतन्मात्रैकैकभूत्क्रमेण् सृष्टिः सिद्धान्तसमता । विष्णुपुराणव्याख्याने विष्णुचित्तीये सा नाद्रियते (१.२.) । तथाति , 'अष्टौ प्रकृतयः षोडश विकाराः ' इति प्रकृत्यकादिपरिगणनं न घटत इति । अतः शब्दतन्त्रादेव आकाशवत् स्पर्शतन्मात्रेऽप्युत्पन्ने तस्मात् शब्दतन्मात्रसहितादेव वायूत्परिः । एवमुत्तरोत्तरभूतम् अनन्तरपूर्वात् तन्मात्रात् स्वपूर्वतन्मात्रसहितादुत्पद्यत इति तन्मात्राणामेव प्रकृतित्वात् , 'अष्टौ प्रकृतय' इत्युपपन्नम् । न च स्पर्शतन्मात्रमात्राद वायुत्पत्तौ तत्र शब्दगुणोपलम्भ उपपद्यते । तन्मात्रं हि गम, 'वायुर्गन्धानिकाशयात्' इत्युक्तरीत्या वातानीतसुरविभागवत् तत्तद्गुणमात्र उद्भूतः अन्यवि च धर्मितद्गतगुणान्तरादावनुद्भूतः (अनुत्कटः) सूक्ष्मळत्रयविशेषः । तत् कथं तदेकोत्पन्नस्य स्थूलनेकगुणशालित्वमिति । परंत्त्रिदं विष्णुचित्तीयमपि अत्रोपनिषदभाष्ये, 'अष्टौ प्रकृतयः' इत्यमन्यथा तात्पर्यवर्धनेन सांख्य- 27 1 . .