पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता (सुबालोप. २. - 'येनेदमावृतं पूर्वमण्डमप्सु प्रलीयते । सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ उदकावरणं यतु ज्योतिषा लीयते तु तत् । ज्योतिर्वायौ लयं याति यात्याकाशे समीरण ॥ आकाशञ्चैव भूतादिर्ग्रसते तं तथा महान् । महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ' वृते । अस्यां योजनायां तन्मात्रेषु, तन्मात्राणीत्युमात्र ल्मात्रशब्दासंकोचः ; बहुवचनस्वारस्यम् ; उपबृंहणानुग्रहश्च सिध्यति । मतनिराकारणादेव नाभ्युपगतमिति सुग्रहम् । तत्र विष्णुचितंयमते, ऋत्यष्टकादि विवरणपराणां व्यामयमादिक्चसामन्यथा निर्वाहसंभावनायामपि, 'आकाशाद्वायुः', 'पृथिञ्प्सु प्रलीयते' इत्यादि- श्रुतिवाक्यार्थघटयं पूर्वमेतद्भाष्यदर्शितरीत्या जागतीति तन्मतं यद्युपेक्षते, तर्हि एतद्भाष्योक्तमप्युपेक्ष्य अहङ्कारादेव तन्मात्राणि पञ्च जायन्ते । ततः शब्दतन्मात्रादकाशे जाते, आकाशात् स्पर्शतन्मात्रसहिताद् वायुरुत्पद्यत इत्येवमेकभूतकतन्मात्रयोरुनरोत्तरभूतोपादानत्वमिष्यताम् । एवञ्चोक्तश्रुतिवैघटयविघटनम् ; तन्मात्राणि भूतादौ लीयन्ते इति बहुकनाञ्जस्यश्चेति चेत्-न- सर्वेषां तन्मात्राणामहङ्कारजन्यत्वस्य विष्णुपुराणाद्युपबृंहणविस्पष्टविद्धत्वात् । बहुवचनस्य पाशन्यायेनोपपन्नतया तदनुरोधेन विस्पष्टोपबृंहणवाधायोगात् । अतः सतिपाञ्चरात्रानुरोधात् सिद्धान्तसंमतरीतिरेव सृष्टिक्रमः । सर्वमन्यत् तदनुरोधेन नेयमित्यलम् । ननु आकशमिन्द्रयेषु न लीयत इति कथम् ? चतुर्दशखण्डे(१४)मधीवावान्नमपिऽन्नादाः इत्येवमुत्तरोत्तर प्रलयस्थलनिर्देशात् , आकाशोवा अन्नमिन्दियाभ्यन्नादानीति नि तवल्लयश्रवणादिति चेन्न-तत्र इन्द्रियाणीत्यस्य इन्द्रियसंसृष्टतन्मात्रपरत्वात्। ननु, 'आकाशं तमात्रे लीयते, तन्मात्रं भूतादौ' इत्येव निर्देष्टव्ये, मध्ये इन्द्रियघटनं किमर्थ कृतमिति चेत-उच्यते । स्थूलभूतानामेवेन्द्रियग्राह्यता न तन्मात्राणाम् । सृष्टयारम्भे च सात्त्विकाहङ्कारजनितानि इन्द्रियाणि विषयोपादानभूते तन्मात्रे संसर्जितानि क्रमेणाकाशादिषु समान स्थितानि समये तत्तद्ग्राहकाण्यभूवन् । एवञ्च, 'ग्राह्यो विषयः सर्वो विलीनप्रायः, ग्राहकात्रमवशिष्टम् ; इन्द्रियाप्यायकभूतशश्च तदा आकाशरूपेणैव स्थित इति आकाशमिन्द्रियेष्विति वाक्येन ज्ञाप्यते । अथ, 'ग्राहकमपि तन्मात्रेण सह अहङ्कारे विलयार्थं तन्मात्रे संसृज्यो; सर्वथा आप्यायकभूतांशविहीनमेवास्ति' इति इन्द्रियाणि तन्मात्रेष्वित्यादिना दर्श्यते । 'इन्द्रियेभ्यः पः परा ह्यर्थाः' इति न्यायेन विषयाणां प्राधान्यात् , भूरि प्रपञ्चत्वाच्च विषयहेतोर्भूतादिस्तामसस्य शब्दको निर्देशः, न सात्विकार्येति च ध्येयम् । .. - माह्यता; )