पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् भूतार्महति लीयते । महानव्यक्तं लीयते। अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति । भूतादिर्महति लीयते इत्यत्रापि भूतादिशब्दोऽहंकारमात्रपरः । वैकारिकतैजसहंकारयोः तदानीमवस्थानानुपपत्तेः । महानव्यक्ते लीयत इति । गुणत्रयवैषम्यानन्तपूर्वावस्था गुणसाम्यम् । गुणसाम्यलक्षणमव्यक्तम् । अव्यक्तमक्षरे लीयते- इति । यस्यामवस्थायां गुणसाम्यमप्यस्फुटम् , तदवस्थं चेतनसमष्टिगर्भं तत् अक्षरशब्देनोच्यते ; न तु चेतनमात्रम् । तस्यान्यक्तप्रकृतित्व-तमोविकृतित्वायोगात् । आः सर्व तत्त्वज्ञातं चिदचिदात्मकं मन्तव्यम् । 'प्रधानादिविशेषान्त चेतनाचेत- नत्मकमिति भगवत्पराशरवचनात् । अत्र तु चिद्गर्भवस्तुनि अक्षरशब्द उपचरितः प्रयोगेऽन्यथासिद्धे शक्यन्तरकल्पनायोगात् । अक्षरं तमसि लीयते इति ।। चिद्गर्भत्वमचित्त्वमपि यत्र विवेक्तुमशक्यम् , तदवस्थमतिसूक्ष्मं प्रधानं तमश्शब्दाभिलप्यम् । अक्षराद्यवस्थाप्राप्त्यौन्मुख्यविशिष्टं तदेव विभक्तं तमः । तदौन्मुख्यरहितमविभक्तं तमः परमात्मशरीरतयाऽपि चिन्तयितुमशक्यम् , सलिलविलीनलवणचन्द्रकान्तस्थसलिल---सूर्यकान्तस्थवह्निकल्यं सर्वज्ञपरमात्मैकवेद्यमवतिष्ठते । भूतलविनिहितबीजस्थानीयमविभक्तं तमः । मृन्निस्सृतबीजवत् विभक्तं तमः । सलिलसंसृष्टार्द्रशिथिलावयवबीजतुल्यमक्षरम् । उच्छूनबीजसमानमव्यक्तम् । अङ्कुरस्थानीयो महानिति विवेकः । तम एकीभवति । महदाद्यवस्थाप्रहाणवत् तमस्त्वप्रहाणाभावात् लीयत इत्यनुक्तिः । कार्योपयोगितया विभक्तं तमः कार्यानुपयुक्ताविभक्ततमसि एकीभवतीत्यर्थः । यथा सलिलावस्थपृथिव्यंशः प्रागवस्थितसलिलेनैकीभवति, यथाऽग्न्यवस्थो जलांशः प्रागवस्थिततेजसैकीभवति, तद्वत् तमस्तत्त्वस्य परमात्मशरीरभावस्य वक्ष्यमाणत्वादविभक्ततमश्शरीरकपरमात्मनैकीभाव इति तत्त्वस्थितिः । अवस्थानानुपपत्तेरिति । सह लयस्यावश्यकस्वादिति भावः। चेतनसमष्टिगर्भमिति । अक्षरस्य चेतनस्य अचिद्गर्भगतत्वमस्यामवस्थायां प्रकाशत इति तत् अक्षरसंज्ञां लभते । तमः परे देव एकीभवतीति । अत्र परे इत्यनेन तस्य सर्वोपादानत्वम् , देवे इत्यनेन निमित्तत्वश्च व्यज्यते । दिवु क्रीडायामिति लीलारसानुभववचनात् किमर्थं सृजतीति शङ्काऽपि शमिता । ननु कारंकारमलौकिकाद्भुतमय मायावशात् संहरन् हारहारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति, तं देवं' कुत्र मुख्यसाम्राज्यनिर्वहणधुरन्धरं पश्येम, जगद्यापारस्य सर्वस्येह -- - .