पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

- २१२ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. २. परस्तात् नसन्नासन्नसदसत् - इत्येतन्निर्वाण'मनुशासनम् । इति 1. निर्वाणानुशासनम् पा. चिदचिदात्मकतम:पर्यन्तप्रकृतिपाकृततत्त्वविलक्षणं तत्त्वान्तरं प्रतिपादयति परस्तान्नसन्नासन्नसदसदिति । परशब्द ऊर्ध्वदेशपरः । ' अथ हैषोऽनन्तमपरमक्षय्यं लोकं जयति । यः परेणाऽऽदित्यम् । इत्यादिप्रयोगात् । 'दिग्देशकालेवस्तातिः । इति पाणिनिस्मृतिः । तमस ऊर्ध्वदेशे इत्यर्थः । सदसच्छब्दौ कार्यावसचेतनाचेतनपरौ । सदादिशब्दाश्च न निषेधमात्रपराः । अपितु तद्विलक्षणपरा इते पूर्वमेवोपपादितम् । तमस उपरिभागे कार्यकारण (कार्यावस्थ :) चिदचिदात्मकै- भयात्मकजगद्विलक्षणं तत्त्वमित्यर्थः । न च वाच्यम् - सदसदनिर्वचनीयत्वमुच्या इति । परस्तादिति पदवैयर्थ्यात् । परमते हि तमःपर्यन्तं कृत्स्नं वस्तुजातमनिर्वचनीयम् । परशब्दस्य तमोविलक्षणब्रह्मपरत्वे प्रपञ्चस्य निर्वचनीयत्वं ब्रह्मण एवानिर्वचनीयत्वञ्चोक्तं स्यात् । अस्तातिप्रत्ययवैयर्थ्यश्च भवेत् । अतः प्रकृतिप्राकृतसमस्तवस्तुविलक्षणं किमपि तत्त्वं विवक्षितम् । तच्च किमित्यपेक्षायाम् , 'आदित्यवर्णं तमसः परस्तात् ', तदक्षरे परमे व्योमन्', 'विश्वं पुराणं तमसः परस्तात् ' इत्यादिभिः वेदान्तवाक्यैः मुक्तपाप्यस्थानविशेषविशिष्टं परं ब्रह्मेति निश्चीयते । न च केवलं परं ब्रह्मैव विश्वविलक्षणत्वात् नसन्नासन्नसदसदित्युच्यते ; परस्ताच्छब्दानन्वय- प्रसङ्गात् । त्रिविधपरिच्छेदरहिततया सर्वगतस्य परब्रह्मणः स्वरूपं हि देशविशेषपरिच्छिन्न कथमुच्यते । अतः स्थानविशेषरूपविशेषविशिष्टमेव तथा वक्तुं युक्तम् (क्तमिति ?) परस्य ब्रह्मणो रूपमनेन वाक्येन प्रतिपाद्यत इति सिद्धम् । इत्येतन्निर्वाणमनुशासनम् । एतदनुशासनम् विविच्य ज्ञापनम् = उपदेशः निर्वाणं निर्वाणहेतुः = मोक्षहेतुः; तत्कारणविषयत्वादित्यर्थः । इति क्रीडामात्रायमाणत्वादित्यत्र तत् स्थलं प्रदर्श्यते परस्तान्नसन्नासन्नसदसदिति । तत्र स्थितस्य न कर्मोपाधिकचेतनाचेतनान्तर्यामित्वदशाऽस्तीति , ज्ञानानन्दमयप्रपञ्चप्रभोर्विष्वक्सेनविन्यस्तसमस्तैश्वर्यस्य विचित्रानन्तभोग्यभोगोपकरणविस्तारस्य श्रीमतो नारायणस्य परमो भोग इति । देश इति । न च एकीभावानन्तरमिति कालपरत्वमेव किं न स्यादिति वाच्यम्-एकादशखण्डे एतत्समानाकारवाक्ये देशार्थकत्वावसायादिहापि तदिष्टेः । "