पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २१३ वेदानुशासनम् । वेदानुशासनम् ॥ अथ तृतीयः खण्डः । असद्वा इदमग्र आसीत् । वेदानुशासनमिति। 'जगत्सृष्टिरेवंविधा । प्रळय एवंविधः। कार्यकारणभूतानि तान्येतानि। ब्रह्मादयश्च कार्यभूताः । परमकारणं ब्रह्मैव चिदचिद्वस्तुविलक्षणं विलक्षणदेशादिविशिष्टम् । तच्च परमपुरुषः । ब्रह्मादयश्च तत्कार्यभूताः तदात्मकाः । परमकारणविषयज्ञानमेव मोक्षहेतुः । इत्ययं वेदोपदेश इत्यर्थः । कारणतत्त्वोपदेशसमाप्तिद्योतकोऽभ्यासः ।। इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरकराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेस्य श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे द्वितीयः खण्डः । श्रीसुदर्शनार्यमहादेशिकाय नमः । (३) जगत्कारणतयोक्तस्य परब्रह्मणः कारणत्वशङ्कितविकारादिदोषव्युदासार्थ तत्स्वरूपं विशोध्यते तृतीयखण्डेन । तदर्थंं कारणमनुवदति असद्वा इदमग्र आसीदिति । इदंशब्दो न जगन्मात्रपरः । तस्य वक्ष्यमाणजगद्वैलक्षण्यव्याघातात् । न हि जगत् जगतो विलक्षणाकारं भवति । जगतः परमात्मशरीरत्वश्चात्रैव वक्ष्यते । अत इदंशब्देन जगच्छरीरकं ब्रह्मोच्यते । जगद्रुपं परं ब्रह्म तु अग्रे सृष्टेः पूर्वमसदासीत् अविभक्तनामरूपमासीत् । महदहङ्कारदेवमनुष्यादिनामरूपशून्यमासीदित्यर्थः । आत्मानं मत्वेत्यनन्तरमात्मशब्दव्यपदेशेन असच्छब्दस्यात्मविषयत्वावगमात् ; 'सदेव सोम्येदमग्र आसीत् । इति कारणवाक्यान्तरैकार्थ्येन तुच्छत्वायोगाच्च । सच्छब्दः कार्यपरः । ' असद्वा इदमग्र आसीत् । ततो वै सदजायत । इति शाखान्तरे चेतनाचेतनेति । "केवलाचेतनादचेतनात् मिश्रिततदुभयरूपम्यधिभ्यक्ष विलक्षणतये"ति सर्वव्याख्यानाधिकरणश्रुतप्रकाशिकाऽप्यनुसंधेया। नसन्नासन्नसदसदिति चेतनाचेतनवलक्षण्यमुक्तं विशदीक्रियते असद्वा इत्यादिना । वक्ष्यते सप्तमखण्डे । अत्र,