पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् - अप्राणममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षुष्कमनामगोत्रमशस्कम- पाणिपादमस्निग्धमलोहितमप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपारमनिर्देश्यमनपावृतमप्रकाश्यमसंवृतमनन्तरमबाह्यं न तदश्नाति किश्चन, अजमिति व्यष्टिदेहविशिष्टदेवमनुप्यादिजीवव्यावृत्तिं सूचितां प्रपञ्चयति अप्राणमित्यादिना। अप्राणमिति प्राणाधीनस्थितित्वं निवर्तितम् : न तु प्राणसम्बन्धमात्रम् । प्राणस्याप्यन्तर्यामित्वात् तस्य । 'यः प्राणे सच्चरन् ' इति हि वक्ष्यते अमुखमिति । अपरभागसापेक्षः पुरोभागावयाविशेषो मुखम् । तदस्य न विद्यते सर्वत्राभिमुखत्वादित्यर्थः । अश्रोत्रमवागित्यादिना ज्ञानेन्द्रियाधीनज्ञानत्वं कर्मेन्द्रिया- धीनव्यापारत्वञ्च निवर्तितम् । तेन तस्य स्वतस्सर्वज्ञत्वं सर्वशक्तित्वञ्च दर्शितम् । अतेजस्कं मनोधीनप्रकाशरहितम् । अचक्षुष्कं रूपसाक्षात्कारे चक्षुरनपेक्षम् । अनामगोत्रमशिरस्कमपाणिपादमिति । नामगोत्रशब्दाभ्यां नामधेयं कुलञ्चोक्तम् । नाम कुलञ्च शिरःपाणिपादाद्यवयवाश्च न स्वरूपे विद्यन्त इत्यर्थः । लोके शिरःपाणिपादाः अन्योन्यकार्याशक्ताः । अयं तु सर्वत्र सर्वावयककार्यशक्त इत्यर्थः। अस्निग्धमलोहितम् । मनुष्यदेहवत् स्वेदरक्तादिमान् न भवतीत्यर्थः । अप्रमेयमिति । प्रमाणम् - इयत्ता। 'प्रमाणे द्वयसज्दघ्नमात्रचः' इति प्रयोगात्, अप्रमेयमपरिमेयम् । व्यष्टिदेहिवत् इयत्तारहितम् । तदेव प्रपञ्चयन् महान्तमित्युक्तदेशापरिच्छेद विवृणोति अह्रस्वमित्यादिना । अस्थूलम् अपीनम् । अनणु अकृशम् । स्थूलताप्रतिसम्बन्धिनो निषेध्यत्वात् । तस्मात् अनल्पम् अल्पपरिमाणरहितम् । अनल्पस्य समुद्रादेरप्यवधिमत्त्वदर्शनात् तद्व्यावृत्त्यर्थमाह अपारमिति । शतयोजनलक्षयोजनत्वादिविशेषणेनिर्देष्टुमशक्यम् । तर्हि सर्वगतत्वात् सर्वत्र दृश्येतेत्यत्राह मनपावृतमिति । तिरोहितमित्यर्थः । अत्र हेतुमाह अप्रकाश्यमिति । चक्षुरादिभिः प्रकाशयितुमशक्यत्वादित्यर्थः । प्रमाणागोचरत्वे शून्यत्वं स्यादित्यत आह असंवृतमति । योगिनामतिरोहितमित्यर्थः । तेषां कुत्र प्रकाशत इत्यत्राह अनन्तरमबाह्यमिति । अनन्तरम् बहिः आदित्यमण्डलादौ प्रकाशत ; अबाह्यम् अन्तः ह्रदयपुण्डरीकेऽपि प्रकाशत इत्यर्थः । न तदश्नातदि किञ्चन । सर्वत्रावस्थितमपि ब्रह्म न किञ्चनाश्नाति । कर्मफलत्वेन न किश्चिदपि जीववत् भुङ्क्त इत्यर्थः । ।

  • 1.