पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ३. -- 1 न तदश्नाति कश्चन । एतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वेदनेनानाशकेन षडङ्गेनैव साधयेत् । एतत्त्रयं वीक्षेत दमं दानं दयामिति । 'ज्ञानक्रियाभ्यां भगवान् भुङ्क्तेऽसौ प्रसभं विभुः' इति लीलारसभोक्तृत्वस्य प्रमाणसिद्धत्वात् । न तदश्नाति कश्चन । कश्चिदपि सांसारिकः कर्मफलमिव न तद् भुङ्क्ते इत्यर्थः । वाक्यद्वयेन समस्तभोक्तभोग्यविलक्षणमित्यर्थः [उक्तो भवति ? । मत्वा धीरो न शोचतीति तदुपासनमपवर्गोपायत्वेन पूर्वमुक्तम् । तस्याला- न्याह एतद्वा इति । यथार्थं भूतहितवचनं सत्यम् । तपसा । ' तप आलोचने । । तत्त्वनिरूपणेनेत्यर्थः । ? ब्रह्मचर्यं स्त्रीनियतिः । अनाशकेन अनशनेन । यद्वा तपः कृच्छ्चान्द्रायणादीति, अनाशकं फलाभिसन्धिरहितं यज्ञादिकम् ; विनाशकेन फलभोगेन तदभिसन्धिकर्तृत्वममकारेण (1) च रहितत्वात् । सत्यादिकमेव षडङ्ग- शब्देनोच्यते । पुनश्च तदङ्गत्वेन प्रकृष्टतरं गुणत्रयमाह एतत् त्रयमिति ॥ दमं मनोनियमनम् । दानम् । 'दैप् शोधने' । स्नानादिना शुद्धिः । प्रसिद्धदानस्य पूर्वोक्तत्वात् पुनरुक्तिपसङ्गात् । अनुक्तगुणान्तरसाहचर्येण दानशब्दस्याप्यनुक्तगुणपरत्वोपपत्तेश्च । यद्वा आदरातिशयात् दानस्य पुनरपि कीर्तनम् । दया स्वप्रयोजमानपेक्षं परदुःखासहत्वम् । सत्येनेत्यादिना अङ्गषट्कस्य वक्तव्यत्वात् तपसाऽनाशकेनेत्यत्र अनाशकपदमपि विशेष्यवाचक स्वीक्रियते । तत्र तपःपदेन कृछ्चान्द्रायणादिग्रहणं अनशनं पृथङ् न वकव्यमिति अनाशकपदस्य यज्ञपरत्वमाह यद्वेत्यादिना । इतिशब्दो हेत्वर्थः। तपःपदेन कृछादेरुक्तत्वादित्यर्थः । तदभिसंधिकर्तुत्वममकारेणेत्यत्र पाठो निरीक्ष्यः । त्रयाणां समाहारद्वन्द्वेन का एकवचनं समर्थनीयम् । तदभिसंधिः फलापेक्षा ब्रह्मचर्य स्त्रीनियतिः इति वाक्यं रहितत्वादित्येतदनन्तरं पाठ्यम् , स्थानात् । निर्वेदनेनेत्यस्य निर्वेदार्थकत्वं स्पष्टमिति तत् पदं दानेनेति पदमिव न व्याख्यातम् । अनाशकेन षडङ्गेनेत्यत्र अनाशकपदं षडङ्गविशेषणं स्यात् । पूर्वोक्तरीत्या विनाशकरहितेनेति तदर्थः। षडङ्गेनेति समाहारः एकाभावेऽपि कार्यासिद्धि दर्शयति । एवकारो वक्ष्यमाणेन दमादि- त्रयेणास्य वैकल्पिकत्वमतिं वारयति ; अङ्गानि विना ज्ञानाभ्यासमात्रेणोपासनं साधयितुं शक्यमिति मतिश्च । साधयेदित्यत्र एतदिति वाक्योपक्रमस्थं कर्म । ब्रह्मोपासनमिति वा ब्रह्मत्येव का तदर्थः अत्र दानेनेत्येतत् बृहदारण्यके (७.२.) देवान् मनुष्यान् असुरांश्च प्रति क्रमेण प्रजापतिकृतोपदेशार्थवादपूर्वकं 'दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद् दमं दानं दया मिति विहितत्रयो फ्लामियाशयेनोच्यति एतत त्रयमिति । वीक्षेतेत्यस्य सिक्षेतेत्यर्थः । तथैव वा पाठः । 1