पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते, ब्रह्मैव सन् ब्रह्माप्येति

1 M P 6 एवं साङ्गब्रह्मोपासनफलमाह न तस्येत्यादिना । य एवम् उक्तैरङ्गैः सह वेद परं ब्रह्मापास्ते, उपासीते ' त्यसकृद्वक्ष्यमाणत्वात् सामान्यशब्दस्य विशेषपर्यवसायित्वाच्चोपासनात्मकं वेदनं विवक्षितम् , तस्य उपासकस्य सम्बन्धमात्रे षष्ठी -- तस्मादुपासकात् प्राणा नोक्रामन्तीत्यर्थः । यथा नटस्य शृणोती ' त्यत्न नटाच्छ्रणोतीत्यर्थः, तद्वत् । एकादशेन्द्रियाणि मुख्यपाणश्च प्राण उच्यन्ते । ते सूक्ष्मशरीरस्था अर्चिरादिमार्गगमनार्था उपासकं न जहतीत्यर्थः 'न तस्मात् प्राणा उत्क्रामन्ती' ति शाखान्तरवाक्यैकार्थ्यात् । कोशं भिनत्ति शीर्षकपालं भिनत्ति पृथिवी भिनत्ती ' त्युपक्रम्य, · अव्यक्तं भिनत्ति अक्षरं भिनत्ति तमो भिनत्ती ' त्यन्तेन अस्यामेवोपनिषदि ब्रह्मविदुत्क्रान्तेर्वक्ष्यमाणत्वाच्च । “प्रति षेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् ” इति ब्रह्मसूत्रम् । ब्रह्मैव सन् ब्रह्मसमानाकारस्सन् ब्रह्माप्येति ब्रह्मण्यप्येति आत्यन्तिकलयं गच्छति । परित्यक्तकर्मकृतदेवमनुष्यादिनामरूपे (पो ) ब्रह्मणि सर्वकारणे सर्वाधारभूते प्रतिष्ठितो भवति कार्यस्य नामरूप्रहाणेन कारणावस्थानं हि लयः । तदानीं ब्रह्मणि वर्तमानस्य ब्रह्मसमानाकारतयाऽवस्थानमुपपन्नम् । परित्यक्तदेवादिरूपस्य ब्रह्मसारूप्यञ्च अपह्रत. पाप्मत्वादिगुणाष्टकाविर्भावलक्षणम् । अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' इति दहरवाक्ये प्रजापतिवाक्ये च गुणाष्टकाम्नानात्। न तस्य प्राणा इत्याद्यर्थविस्तरो बृहदारण्यके द्रष्टव्यः(६.४.)। अत्रैव समवलीयन्तं इत्यस्य अचिरादिगत्यर्थमवस्थापितं सूक्ष्मशरीर एवं लीयन्ते ; न स्थूलशरीरान्तरं प्रति यान्ती त्यर्थः । यद्वा अत्रैवेत्यस्य प्रकृतावेवेत्यर्थः । एवञ्च न तस्य प्राण! उत्क्रामन्तीत्यस्य तदीय प्राणाः न तत्प्राप्यं प्रकृतेः परं स्थानं प्रत्युत्कामन्तीत्यर्धवर्णनेऽपि न दोषः। तेन तत्रास्य अकर्म कृतो देह इति सिद्धयति । अथा 'अत्रैव समवलीयन्त' इत्यस्य जीवसंसृष्टा एव भवन्तीत्यः एवेह भाष्याभिमतः स्यात् ; अधिकस्यानुक्तत्वात् । " प्रतिषेधात्' इति सूत्रटीकायां तथैवोक्तत्वाच्च । 28 - ..