पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ श्री श्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ३. य एवं वेद ॥ ।। इति तृतीयः खण्डः ॥ EMS . - निर्विशेषज्ञानमात्रब्रह्मतापत्तिपरत्वमस्य वाक्यस्यानुपपन्नम् - य एवं वेद स ब्रह्मैव सन्निति पदानामनन्वितत्वात् । वेदितुः ब्रह्मतापत्तिप्रतीतेः । वेदितुर्वृत्तिमात्रतापत्तेरनुपपन्नत्वाच्च । किञ्च ब्रह्माप्येतीति वाक्यस्य ब्रह्मशब्दद्वितीयानुरोधेन प्राप्तिर्वा, अप्येतीतिशब्दस्वारस्यानुरोधेन तत्र लयो वा अर्थः स्यात् । ब्रह्मैव सन्निति ब्रह्मतापन्नस्य ब्रह्मभावातिरेकेण प्राप्तेर्लयस्य चाभावात्, 'ब्रह्माप्येतीति वाक्यांशोऽनर्थकः स्यात् । 'ब्रह्मतापन्नस्य काल्पनिकनामरूपभेदप्रहाणमप्ययः' इति चेत् , तद्व्यतिरेकेण ब्रह्मभावो नाम अर्थान्तरं नास्तीति, ब्रह्मैव सन्निति वाक्यांशोऽनर्थकः स्यात् । 'प्रागेव ब्रह्मानन्य आत्मा। तस्मात् काल्पनिकभेदलय एव विद्याफलमित्यर्थः' इति चेत्, 'य एवं वेद, स ब्रह्मैव सन् ब्रह्माप्येती ति ब्रह्मतापत्तेर्वेदनफलत्वप्रतीतिस्वारस्यभङ्गः । किञ्च क इह, ब्रह्मैव सन्नित्युच्यते : किं ज्ञप्तिमात्रम् : तर्हि वाक्यवैघट्यम् । यो वेद स ब्रहौव सन्नित्युच्यते ; न तु या वित्तिः सा ब्रह्मैव सती ब्रह्माप्येतीति । अतो वेदितुरेव ब्रह्मतापत्तिः प्रतीयते । वदिता च ज्ञाता । स चाहंकारः । काल्पनिकोडहंकारो जडः, नात्मेति तस्य ब्रह्मभावाभावात् ब्रह्माज्ञानवादपक्षे इयं श्रुतिरत्यन्त- विरुद्धा । अतो यथोक्त एवार्थः ।। . -- इति हरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेयस्य श्रीसुदर्शनार्थस्य कृतौ सुबालोपनिषद्विवरणे तृतीयः खण्डः ।। ।। श्रीसुदर्शनार्यमहादेशिकाय नमः ।।