पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ४. कुमुदमिवानेकधा विकसितम् । हृदयस्य दश छिद्राणि भवन्ति । येषु प्राणाः प्रतिष्ठिताः । सदृशावयवविशेषः तिष्ठतीत्यर्थः । हृत्पद्मं मांसविशेषेण परित आवेष्टितत्वात् मांपिण्डमध्यस्थितमित्युक्तम् । कुमुदमिवानेकधा विकसितमिति । वर्णेन कुमुद्सन्निभम् | तस्य चन्द्रकान्तसमानत्वं हि योगशास्त्रेषूच्यते । अनेकधा विकसितं विकासयोग्यम् । अनेकधा शब्दादिनानाविषयज्ञानप्रसरानुगुणावकाशमित्यर्थः । तदेव विवृणोति हृदयस्य दश छिद्राणि भवन्तीति । अयं हृदयशब्दः पद्मकोशसदृशावयवपरः । छिद्राणि नाडीमुखसम्बन्धद्वाराणि । येषु प्राणाः प्रतिष्ठिता इत्यनेन नाडीछिद्रत्वं स्पष्टम् । इह बहुवचनान्तप्राणशब्देन इन्द्रियाणि विवक्षितानि । यद्वा प्राणापानादयो विवक्षिताः । - %3 अत्रायं हृदयशब्द इति । अत्र सुबालोपनिषदि । तेन, 'पद्मकोशप्रतीकाशं हृदयच्चाप्धोमुखम्' इति तैत्तिरीयश्रुतहदयशब्दव्यावृत्तिः । तस्य पुण्डरीकाकारभागपरत्वात् । अत्रापि अनन्तरवाक्ये, हृदयस्य दशेत्यत्र यथातैत्तिरीयमर्थस्वीकारात् अयमित्युक्तम् । अथवा एकेन पदेन उत्तरहृदयपदव्यावृत्ति ; अन्येन पुण्डरीकाकार हृदयाधारमांसपिण्डगर्भकत्वरूपः अर्थान्तरपरत्वसाधको हेतुर्दर्शितः । द्वितीय हदयपदस्यापि समानार्थकत्वे कस्मान्नेति चेत्-दशानां छिद्राणां वक्षःप्रदेशे अभावात् , तत्रैव भावादिति भाव्यम् । किञ्च, यस्मिंस्तद्दहरमित्यत्र तदितिपदं तावत् हृदयमित्यर्थकं सत् दहरस्य हृदयत्वेनान्यत्र प्रसिद्धिं गमयति । एवं तर्हि, 'तस्य दश छिद्राणि' इत्येव कस्मात् पठत्ये उपरी चेत् -- मुख्यह्रद यत्वं तस्यैवेति ज्ञापनाय हृदयशब्देन निर्देश इति : किञ्च यदि द्वितीयं हृदयपदं वक्षःप्रदेशार्थकम् , तर्हि हृदयस्येत्यारभ्य विकसितमित्यन्तं वाक्यमुपर्येव पाठमर्हति ; प्रकृतानुपयोगादिति हृदयम् । सर्वेन्द्रियकन्दभूतत्वञ्चास्यैव जीवाधारस्य युक्तम् । शेषमुपरिष्टात् । नाडीति । तत्तदिन्द्रियनाडीत्यर्थः । उपरि प्रागव्यानापानादिनिर्देशानुगुण्यात् आभ्यन्तरवायावपि दशधा विभागस्य प्रसिद्धत्वात् दशच्छिद्रवर्तिनः प्राणाः तेऽपीत्याशयेनाह यद्वा प्राणापानादय इति । श्रुतौ व्यानस्य