पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २२१ स यदा प्राणेन सह संयुज्यते, तदा पश्यति नद्यो नगराणि बहूनि विविधानि च । यदा व्यानेन सह संयुज्यते, तदा पश्यति देवांश्च ऋषींश्च । यदाऽपानेन सह संयुज्यते, तदा पश्यति यक्षगक्षसगन्धर्वान् । यदा तूदानेन सह संयुज्यते, तदा पश्यति देवलोकान् देवान् स्कन्दं ' जयञ्चेति । यदा समानेन सह संयुज्यते, तदा पश्यति देवान् लोकान् धनानि च। यदा 1. जयन्तच.

- योगदशायां वायुविशेषस्य ज्ञानविकासकारणत्वमाह स यदेत्यादिना। स यदा प्राणेन संयुज्यते, तदा पश्यति नद्यो नगराणि बहूनि विविधानि चेति । उपासकत्वेन पूर्वखण्डप्रस्तुतः इह च शरीराद्यधिष्ठातृत्वेन बुद्धिस्थोजीवात्मा स इत्युच्यते । यदेति योगकालो विवक्षितः । एकवचनान्तोऽयं प्राणशब्दः प्राणाख्यवृत्तिमद्वायुविशेषपरः । प्राणेन सह संयुज्यते । मनसा पाणसंयुक्तत्वेन भावित इत्यर्थः । यत्र हि मनः, तत्र हि वायुः । नद्यः नदीः । पश्यतीति । व्यवहितान्यपि नद्यादीनि पश्यतीत्यर्थः । यदा व्यानेन सह संयुज्यत इत्यादिवाक्यानामप्यनया दिशा निर्वाहो वेदितव्यः । यदा तूदानेनेति । देवान् । देवलोकस्थानिति शेषः । जयं जयाभिमानिदेवताम् ; जयन्तं वा । तलोपश्छान्दसः । प्रधानभूतदेवतापदर्शनार्थं स्कन्दाधुक्तिः । धनानीति । भूमिनिहितानीत्यर्थः । अपानात् पूर्व पठनमेतच्छाखीयानां प्राणाहुत्यादौ व्यानस्यैव प्राणानन्तरं ग्रहणात् स्यात् । पुरुषस्य प्राणसंयोगः सर्वदैव सर्वस्यास्तीति यदेत्यदिनिर्देशोऽनुपपन्न इति संयुज्यत इत्यस्य संयुक्तमनस्क इत्याभिप्रायेण योगिजीवपरतया स यदेत्यादिवाक्यं नयति उपासकत्वेनेत्यादिना । न च स यदेत्यादिकं सर्व स्वप्नदशावर्णन परमेवास्तु ; उपरि अथेमा दश नाडय इति च, सुषुप्तिवाक्यमध्ये अथात्रैतदिति अथशब्दवन्न बाधकं भवेदिति वाच्यम् --- अथ द्वितीये कोशे इति स्वप्नकोशस्य द्वितीयतया वर्णनात् , तदुपार सुषुप्तौ ह्रद्याकाशे परे कोशे इति तृतीयकोशकथनात् प्रथमं प्रथमकोशवृत्तमेव कथ्यत इति प्रतीत्या जागरपरताया एवात्र वाक्यसमुदाये ग्राह्यत्वात् । तत्र वदेत्यादिनिर्देशात् देवयक्षादिदर्शनकथनवशाच्च सर्वपुरुषजागरपरत्वासंभवे सिद्ध योगिपरत्वावधारणेति । प्राणसंयुक्तत्वेन भावित इत्यत्र स्वयमिति शेषः । भावित इति कथनं मनोरूपसहकारिप्रदर्शनार्थम् । ग्राह्यविषयं विमृश्य तदनुरूपे वायुविशेषे च मनोऽवस्थाप्यते चेत् , तद्विषयदर्शनं योगिनो भवतीत्यर्थः । तलोप इति । जयन्तमिति पाठोऽप्यस्ति ।