पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ४. वैरम्मेण सह संयुज्यते, तदा पश्यति दृष्टश्चादृष्टश्च श्रुतश्चाश्रुतश्च भुक्तञ्चा-भुक्तच सच्चासच्च । सर्वं पश्यति ; सर्व पश्यति । अथेमा दश नाडयो भवन्ति । तासामेकैकस्यां द्वासप्ततिर्द्वासप्ततिः वैरम्भः वायुविशेषः । उपरि व्यक्तीभविष्यति । दृष्टश्रुतादिकीर्तनं दृष्टान्तार्थम् । जन्मान्तरे दृष्टं वा। सर्वं पश्यतीत्यभ्याआदरकृतः । एवं प्राणादिविशेषप्रसङ्गेन तत्प्रशंसा कृता । अयोगदशायामदर्शनं लोकसिद्धत्वादनुक्तम् । एवञ्च हृदयकमलस्थस्य जीवात्मनः प्राणेन्द्रियव्यापारवतो जागरावस्था दर्शिता भवति । अथ स्वप्नाद्यवस्थाद्वयं वक्तुं तयोरवस्थयोर्जीवस्य स्थानभूतान् नाडीविशेषानाह अथेमा दश नाड्यो भवन्तीति । नाड्यः प्रधाननाड्यः । तासामिति । प्रधाननाडीसंसृष्टाः अप्रधानसिराः शाखानाड्यः । उक्तानां नाडीनां विनियोग सामान्येन उपरीति । नवमखण्ड इत्यर्थः । सत् वर्तमानम् । असत् अतीतमनागतश्च | जागरावस्थेति । येषु प्राणाः प्रतिष्ठिताः इति पूर्ववाक्येनैव जागरसामान्यमुक्तप्रायं मन्तव्यम् । एवं योगकाल एवैवप्रतीत्या अन्यदा तदभावादपि च जाग्रतो जुगुप्सितत्वं ज्ञापितं भवति । ! दशच्छिद्राधिष्ठितवायुविशेषसहकारेण भवन् जागरविशेष उक्तः । अवस्थान्तरस्थानभूतदशनाडीसंबन्धमाह अथेमा इति । 'हृदयस्य दशछिद्राणी'ति वाक्यात् हृदयस्येत्यस्यौचित्यादनुषङ्गः । इमाश्च ज्ञानकर्मेन्द्रियदशनिबन्धनभूता इति विमृश्यम् । नाडीनां स्वप्नस्थानत्ववत् सुषुप्तिस्थानत्वमपि निर्बाधम् । “ तदभावो नाडीषु तच्छ्रुतेरात्मनि च " इति सूत्रे नाडीनां सुषुप्तिस्थानत्वस्वीकारात् । एवत्र तत्रोदाहृतस्य बृहदारण्यकवाक्यस्य (४.१) तत्परत्वेऽपि कौषीतकि- ब्राह्मणे स्वप्नस्थानपरत्वमपि श्रुतम् । “नाडीना स्वप्नस्थानत्वात् " इति जगद्वाचित्वाधिकरणभाष्यच्च कौषीतकिब्राह्मणगतप्रकृतवाक्याभिप्रायम् | ताश्च सुषुप्तिनाडयः हितानामिकाः प्रत्येक द्वासप्ततिसंख्याकशाखानाडीमतया बृहदारण्यके उक्ताः । इहापि तथा श्रवणात् उभयपरमेवेदं वाक्यमिति भावः । (एवञ्च तास्त्रेव नाडीषु स्थानमेदः स्वप्नसुषुप्तिभेदाय ग्राह्यः ।)