पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 । सुबालोपनिषत् २२५ यथा केशः सहस्रधा भिन्नः, तथा हिता नाम नाइयो भवन्ति । हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति, यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति । न तत्र देवा देवलोका यज्ञा वा। नाडीबाहुल्यमाह यथा केशः सहस्रधा मिन्नः तथा हिता नाम नाड्यो भवन्तीति । हृदयसंबद्धा भवन्तीत्यर्थः । तासां हिताख्यानां नाडीनां सुषुप्त्याधारत्वं पुरीतद्यवहितमिति श्रुत्यन्तरे विशदमर्थमिह दर्शयति हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपितीति । हृदि आकाशेऽवस्थितोऽयमात्मा परे कोशे अन्यस्मिन् स्थाने मांसपिण्डशब्देन पूर्वमुक्त पुरीतदात्ये स्थाने स्वपितीत्यर्थः । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीलतमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते ' इति हि श्रुत्यन्तरम् । हृदयवेष्टनमांसं पुरीतच्छब्देनोक्तम् । तदिह स्थानान्तर- त्वेनोच्यते । हृदये जागरः । नाडीविशेषेषु स्वमः । हिताख्यनाडीविशेषान्विते पुरीतति सुषुप्तिरिति विभागः। यत्र तृतीयस्थाने । न तत्र देवा देवलोका यज्ञा यथा केश इति । स्वप्नस्थानभूतानां नाडीनामपि हितानामकत्वस्य सहस्रधापाटितकेशनद्भावस्य च कौषीतकिश्रुत्युक्त्वात् सुषुप्ति नाडीनां तासाश्चैक्यं वा भेद एव वेति विमृश्यमेतत् । ऐक्येऽपि तत्र प्रदेशभेदोपपादनाय केशः सहस्रधेत्यादिपूर्वकं पुनस्तन्निर्देश इह घटेत । एवम् अथेमा दशा नाड्य इति पूर्वमारम्भात् इन्द्रियदशकनिबन्धनभृतास्ता एव स्थानभेदेन स्वप्नसुषुप्तिनिर्वाहिकाः जागरसंबन्धिन्यः । एतदधिकरणकोपासनमेव चानन्तरे खण्डे प्रस्तोष्यत इति विभाव्यं भवति । ननु अथावत्यारभ्य एतद्वाक्यपरामर्श च पूर्वं हृदयस्य दश छिद्राणीति वाक्ये हृदयस्येति न पुण्डरीकार्थकम् , किंतु उपक्रान्तह्रदयपदसमानार्थमिति, यत् तत्र प्रस्तुतं दहरपुण्डरीकम् , तस्येहैव संबन्ध इति च ज्ञायते । न । एकादशखण्डे दहरं पुण्डरीकं प्रस्तुत्य, तस्य मध्ये समुद्रः; समुद्रस्य मध्ये कोशः ; तस्मिन्नाड्यश्चतस्रो भवन्तीति नाड्यन्तरचतुष्टयप्रस्तावात् इहोक्ता नाड्यः कोशव्यतिरिक्त स्थानगता इति ज्ञायते । तत् स्थानं स्थूलहृदयं वा दहरपुण्डरीकं वेति परामर्शे, 'हृदयस्य नाडको हृदयात् पुरीततममिप्रतिष्ठन्ते' इत्येतदनुसारेणार्थनिश्चयः कार्यः । दश छिद्राणि तु दहरपुण्डरीके नाडीमूलस्थानानि । सुषुप्तस्य देवाद्यपेक्षया भेदः न तत्र देवा इत्यादिना न वर्ण्यते ; जागरेऽपि तस्य भेदस्य सत्त्वात् । अतः, बहुवचनाद्यनुरोधाच्च न दृश्यन्त इति वाक्यार्थ एव वक्तव्यः । न मातेत्यादावपि एवमेव वाक्यार्थवर्णनं श्रुत्यभिमतं चेत् : यज्ञा वा इति वाकारो न स्यात् । अत: तद्बलात् तत्पर्यन्तं काचित् शैली, अथान्येति प्रतीत्या, अध्याहारगौरवपरिहाराय च सुषुप्तजीवो 29 . "