पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

- 6 २२६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ४. न माता न पिता न बन्धुन बान्धवो न स्तेनो न ब्रह्महा 'नतेजस्कायममृतं सलिल एव । इदं सलिलं वनम् । भृयस्तेनैव मार्गेण जाग्राय धावति स सम्राडिति होवाच ॥ ॥ इति सुबालोपनिषदि चतुर्थः खण्डः ॥ 1. न. इति न. वेति । देवा (देहा] दयः सुषुप्तौ न दृश्यन्त इत्यर्थः। न मातेत्यादि । सुषुप्तः पुरुषः न माता भवति । न पिता भवति । मातृत्वपितृत्वाद्यभिमानरहितो भवतीत्यर्थः । बन्धुः प्रकृतिसंबन्धवान् । बान्धवः सुहृदादिः । नतेजस्कायममृतमिति । अमृतं मरणादि रहितमात्मवस्तु नतेजस्कायम् । तेजश्शब्दो ज्ञानपरः। कायशब्दो निकायपरः । विविधज्ञानसमूहरहितमित्यर्थः । सलिले । सलिले, सलिलकार्ये शरीरे वा वर्तत इत्यर्थः । सलिलशब्द विवृणोति इदं सलिलं वनमिति । वनम् । 'वन षण संभक्तौ ।। आत्मनः संभजनीयमिदं शरीरं सलिलकार्यत्वात् सलिलमित्यर्थः । इदं सलिलं छन्नमिति पाठे इदं शरीरं छन्नम् = सुषुप्तस्य न भासत इत्यर्थः । पुनः प्रबोधप्रकारमाह भूय इति । तेनैव मागेण निर्गमनमार्गेण ; हिताख्यनाडीमार्गेण । 'ताभिः प्रत्यवसृष्य पुरीतति शेते' इति श्रुतेः । सम्राट् शरीरस्वमिभूतः पुरुषः तेनैव निर्गमनमार्गेणैव जाग्राय जागरणाय धावति गच्छति । हृदयस्थानमिति शेषः । इति होवाचेति आचार्य इति शेषः ।। इति हरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेयस्य श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे चतुर्थः खण्डः ॥ न माता भवतीत्याद्यर्थवर्णनम् । बन्धुः प्रकृतिसंबन्धवानिति । स्वस्वमातापित्रादिशरीरानुबन्ध शालीत्यर्थः । नतेजस्कायमिति पाठदर्शनेन धर्मभूतज्ञानसमूहरहितम् इत्यर्थवर्णनम् । अनेन पदेन नमाताभवतीत्यादीनां मातृत्वाद्यभिमानराहित्यरूपोऽर्थो व्यञ्जितो भवति । न हि मातृभूतो जीवः सुषुप्तौ मातृत्वरहितो भवति । नशब्दं विना तेजस्कायमित्येव तु पाठो दृश्यते । तदा च अपरिणतधर्मभूतज्ञानविशिष्टमित्यर्थः । वस्तुतः ज्ञानस्वरूपमित्येवार्थः । अभिमानाद्यनुपलम्भमात्रेण आत्मनाशो न मन्तव्य इति च अमृतमित्यनेन दर्शितम् । टेहाभिमानाभावेऽपि देहसंबन्धो नापेत इति दर्शयितुं सलिल एवेति । 'सलिल एको द्रष्टे 'ति च बृहदारण्यके (".४.३२.) । तेनैव मार्गेणेति । हृदयस्थानस्थितो जागरस्थानात् स्वप्नस्थानद्वारा सुषुप्तिस्थानं दहरपुण्डरीकमध्यमागतो यथागतं बहिरायातीत्यर्थः । सम्राडिति । स्वप्नप्रस्तावे संप्रसाद इत्युक्तः जाग्रद्भवन् सम्राडित्युच्यते । बृहदारण्यके तु सम्राडिति जनकविषयं संबोधनम् । -