पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २२७ ॥ अथ पञ्चमः खण्डः ।। स्थानानि स्थानिभ्यो यच्छति । नाडी तेषां निबन्धनम् । एवं जागराद्यवस्थासु दुःखाभिभूतस्य निर्विष्णस्य चेतनस्यापवर्गार्थम् , समस्तचिदचिदन्तरात्मभूतस्य सर्वस्मात् परस्य निर्दोषस्य कल्याणगुणाकरस्य परमात्मनः उपासनप्रकारान् उपदिशति स्थानानि स्थानिभ्यो यच्छतीति । वक्ष्यमाणानि चक्षुरादीनि स्थानानि स्थानिभ्यः आदित्यादिभ्यः परमात्मा यच्छति प्रयच्छति । आदित्यादीनां चक्षुराद्यभिमानित्वं भगवत्संकल्पाधीनमित्यर्थः । “ ज्योतिराद्यधिष्ठानं तु तदामननात् प्राणवाता शब्दात् " इति हि सूत्रकारः । नाडी तेषां निबन्धनमिति । नितरां बन्धनम् संबन्धहेतुः । तेषाम् आदित्यादीनां चक्षुरादीनाञ्च शरीरान्तर्गतहृदयकोशस्थेन चेतनेन संबन्धहेतुर्नाडी। आदित्याद्यधिष्ठितं चक्षुरादिकं नाड्या संबद्धम् । नाडी हृदयेन संबद्धा। हृदयमात्मना संबद्धमिति तत्तद्देवताधिष्ठितैश्चक्षुरादिभिरात्मनः संबन्धो नाडीद्वारक इत्यर्थः । एवं परमात्मविषयकोपासिसिषिोपजननाय जीवस्य जागराद्यवस्थाक्लेशज्ञापनं कृतम । एवमिह, यादृशनाडीरूपनिबन्धन - तदनुबन्धिवस्त्वन्तर्यामिपरमात्मोपासनमनन्तरखण्ड वक्ष्यते, तादृशोीभिर्नाडीभिर्हितानामिकाभिः देहिनां हित जागरादिभेदेन नानाप्रकारं संभवत् उपवर्णयन् अयं खण्ड. उपरितनखण्डशेष इत्यपि ध्येयम् ॥ पूर्व नाडयो दर्शिताः। तन्नाडीतदनुबन्ध्यवच्छेदेन परमात्मोपासनमत्रोपदिश्यते । ननु यद्यप्यत्र चतुर्दश पर्यायाः सन्तीति नायः चतुर्दश, न तु दशेति प्रतीयते-- अथापि मनसः सर्वेन्द्रियोपकारकतया इन्द्रियान्तरनाड्य एव मनोनाडयोऽपि ; एवं बुद्धिचित्ताहङ्काराणामपि मनसी भिन्नत्वाभावस्य श्रीभाष्ये भाषितत्वात् तदर्थमपि न पृथङ्नाड्य इति स्यात् । अतएव हृदयस्य दशैव छिद्राणि प्रागुक्तानीति चेत् - अस्तु , किं तेन ? वस्तुनो मनोबुद्धयादेः विभिन्नोपासनस्थानत्वादिस्वारस्यात् सन्त्येव उक्तनाडीदशकातिरिकाः मन.प्रभृनीनां नाडीविशेषाः । अत एव षष्ठे चतुर्दश नाडयो नाम्ना निर्देश्यन्ते । अत एव अङ्कारादिपदमपि मनोभिन्नपरतया भाष्ये व्याख्या स्यते । चित्त तु सर्वथा मन एव । नाडी तेषां निबन्धनमिति प्रतिपर्यायमावर्तते । तत्र प्रथमवाक्ये स्थानानां स्थानिनाञ्च ग्रहणम् । उभयेषामेव पूर्वं निर्देशात् । उपरितनेषु तैः सह विषयाणामपि ।