पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ५. १. चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यश्चक्षुषि यो द्रष्टव्ये य आदित्ये यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। अथ त्रिविधस्थानसंबन्धिनः परमात्मन उपासनं वक्तुं स्थानत्रैविध्यमाह चक्षुरध्यात्ममित्यादिना। आत्मनि शरीरे वर्तमानं वेदितव्यमध्यात्मम् । भूतेषु पृथिव्यादिषु वर्तमानं वेद्यमधिभूतम् । देवेषु वर्तमानं देवतासु अन्तर्भूतत्वेन वेद्यमधिदैवतम् । चक्षुरध्यात्ममिति । शरीरे वर्तमान चक्षुः परमात्मव्याप्यत्वेनानु सन्धेयम् । द्रष्टव्यमधिभूतमिति । पृथिव्यादिषु वर्तमानं द्रष्टव्यं रूपं तथा वेद्यम् । आदित्यस्तत्राधिदैवतमिति । तत्र द्रष्टव्यगोचरे चक्षुषि अधिष्ठातृत्वेन देवतासु वेध तत्त्वम् आदित्य इत्यर्थः । पूर्वं सामान्येनोक्तं नाडीनां संबन्धकत्वमिह दर्शयति नाडी तेषां निबन्धनमिति । नाडीविशेषा वक्ष्यन्ते । हृदयसंबन्द्धा नाडी हृदयस्थेन पुरुषेण चक्षुरादित्यद्रष्टव्यानां संबन्धहेतुरित्यर्थः । एवमुक्ते त्रिविधेऽपि स्थले नाड्यादिषु च परमात्मनोऽवस्थानमाह यश्चक्षुषी- त्यादिन।। सर्वपर्यायेष्वपि प्राणशब्दो नवमे वक्ष्यमाणवायुविशेषपरः । विज्ञाने एवं तत्तदेवताधिष्ठितैः प्राणाधारैः चक्षुरादिभिरिन्द्रियैः जन्ये जीवात्मनो विज्ञाने । आनन्दे ज्ञानपूर्वकप्रवृत्तिफलभूते सुखे । अनेन जीवात्मनां ज्ञानानन्दयोः चक्षुरादीनां हेतुत्वं परमात्मसंकल्पाधीनमिति दर्शितम् ।। प्रज्ञा च तस्मात् प्रसृता पुराणी , ' एष ह्येवानन्दयाती ति हि श्रुत्यन्तरम् । हृदयाकाशे । नाडीसंबन्धद्वारेण सर्वैन्द्रियाश्रये हृदि विद्यमानमाकाशं सुषिरम् ; तस्मिन् । 'तस्यान्ते सुषिरं सूक्ष्मम् इति हि श्रूयते । एतस्मिन् इह परिगणिते सर्वस्मिन् वस्तुजाते । तत्राप्यन्तरे अन्तर्भागे । यः सञ्चरति वर्तते तिष्ठतीत्यर्थः । सर्वगतस्य परमात्मनो देशात् देशान्तरसंयोगरूपसञ्चारासंभवात् । सोऽयम् उक्तवैभवविशिष्टः सर्वगतत्वात् संनिविष्टः आत्मा परमात्मेत्यर्थः ; आदित्यदिक्षेत्रज्ञेष्वप्यवस्थानोक्तः। स नारायण नाडीविशेषा वक्ष्यन्त ति । षष्ठे खण्डे विराजा, सुदर्शना, जिता, सौम्या, मोघा, कुमारा, अमृता, सत्या, मध्यमा, नासीरा, शिशुः, सूर्या, असुरा, भास्वती इति चतुर्दश नाइयो वश्यन्ते । नवमेऽपि ताः प्रस्तोष्यन्ते । )