पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

" सुबालोपनिषत् २२९ तस्मात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् । २. श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तवाधिदैवतम् ; नाडी तेषां निबन्धनम् । यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो ह्रद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् । ३. नासाऽध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यो नासायां यो घ्रातव्ये यः पृथिव्यां यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरतिं, सोऽयमात्मा। तमात्मानमुपासीत,अजरममृतमभयमशोकमनन्तम्। ४. जिह्वाऽध्यात्मं रसयितव्यमधिभूतं वरुणस्तवाधिदैवतम् ; नाडी तेषां निबन्धनम् । यो जिह्वायां यो रसयितव्ये यो वरुणे यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्तरति, सोऽयमात्मा । तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् । इति व्यक्तीभविष्यति । तम् उक्ताकारविशिष्टमुपासीत । मुमुक्षुरित्यर्थसिद्धम् ; ब्रह्मैव सन् ब्रह्माप्येति । एतन्निर्वाणमनुशासन मिति प्रकरणानत्। अजरममृतमिति । जरामरणनिषेधः सर्वशरीरगतसर्वधिकाराभावप्रदर्शनार्थः । अभयमशोकमिति । भावि-भूतहेतुजन्ये दुःखे भयशोकौ। तन्निषेधो जीवात्मगतसर्वदोषाभावप्रदर्शनार्थः । एवमचेतनात् बद्धचेतनाच्च व्यावृत्तिः । अनन्तम् देशकालवस्तुभिः परिच्छेदरहितम् । अनेन मुक्तात् व्यावृत्तिः । एवं चिदचिदात्मक ततद्विभूतिविशिष्टं विश्वचिदचिद्विलक्षणं परमात्मानं नारायणमुपासीतेत्यर्थः । श्रोत्रमध्यात्ममित्यादयः पर्यायाः सर्वे प्रथमपर्यायविवरणेन प्रायशो व्याख्याताः । श्रोतव्यं शब्दजातम् । दिश इति दिगभिमानिदेवता विवक्षिता। नासेति घ्राणेन्द्रियं विवक्षितम् । इन्द्रियप्रकरणत्वात् । घ्रातव्यो गन्धः । पृथिवीशब्दो देवतापरः । जिह्वाशब्दो रसनेन्द्रियपरः । रसयितव्यं माधुर्यादिरसः । .