पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्त [सुबालोप. ५. ५. त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदेवतम् नाडी तेषां निबन्धनम् । यस्त्वचि यः स्पर्शयितव्ये यो वायौ यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ६. मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदेवतम् ; नाडी तेषां निबन्धनम् । यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाडयां यः प्राणे यो त्वक् स्पर्शनेन्द्रियः । स्पर्शयितव्यम् विशेषः । वायुः । देवता । ननु मन्तव्यमधिभूतमिति कथमुच्यते मनश्चन्द्रपभृतयो विहित (प्रभृतयोऽपि हि !) मन्तव्यकोटिनिविष्टाः। ततश्चाध्यात्माधिभूतादिविभागो न स्यादिति-उच्यते । यत्राध्यात्माधिभूतादिसंकर ; तत्र मनःप्रभृतिपदार्थव्यतिरिक्तविषयत्वेन मन्तव्यादि- शब्दा: संकोचयितव्याः । यद्वा तुलायां प्रमाणभावप्रमेयभाववत् मनश्चन्द्रादीनामेव आकारभेदेनोभयकोटिनिविष्टत्वव्यवहार उपपन्न इति मनः शरीरान्तर्वृत्तित्ववेषणाध्यात्मं भवतु ; विचार्यत्ववेषेण मन्तव्यञ्च भवतु । अधिभूतशब्दोऽपि भूतपरिणामे शरीरे अवस्थितत्वादुपपन्नः । देवतारूपस्य चन्द्रादेरपि मन्तव्यत्वमविरुद्धम् ; विचार्य निर्णतव्यत्वात् । आकाशवर्तित्वादधिभूतत्वञ्चाविरुद्धम् । सर्वेश्वरस्य तु मन्तव्यत्वेऽपि समाभ्यधिकराहित्येन अन्याधिष्ठेयत्वाभावात मन्तव्यशब्द: चन्द्रादेः (१) अर्वाचीनेषु संकोचनीयः । एवं सर्वपर्यायेषु संकीर्णव्यवहारपरिहारो द्रष्टव्यः । ननु मनसोऽध्यात्मं गणितस्य, चन्द्रस्य चत्रैवाधिदैवतं गणितस्यापि मन्तव्यत्वात् मन्तव्य सर्वं कथधिभूतमिति गण्येत इति शङ्कते ननु मन्तव्येति । न मन्तव्यं सर्वमधिभूतमिति विवक्षितम्, किन्तु अध्यात्ममधिदैवतश्चोक्तादन्यस्य भूतान्तर्गतत्वात् प्रायोवादोऽयमित्याशयेन समाधते उच्यत इति । तुलायामिति । तुलायां = घटे अधिकद्रव्यतोलनापेक्षी प्रथमत: पलादिना इष्टकादि समगौरवं परिमाय, तत् इष्टकादि पलादिना सहैकत्र फलके निक्षिप्य फलकान्तरे विक्रेयद्रव्यं निक्षिप्य तोलयति । ततेष्टकादि पूर्वं प्रमेयं भवत् पश्चात् प्रमाणमपि भवति । तथेत्यर्थः । तदुक्तं न्यायसूत्रे, 'प्रमेयता च तुलाप्रामाण्यवत् ' इति । अवश्यच्च मन्तव्यशब्दार्थे संकोचः कार्यः । श्रोतव्यो मन्तव्यः' इति श्रुतस्य परमात्मन इह तदर्थतया अग्राह्यत्वात् । तस्याप्यत्र तेन पदेन ग्रहणे न केवलमधिभूतामित्येतदनन्वयमात्रम् , यो मन्तव्ये' इत्युपरितनवाक्योक्ता तस्मिन् परमात्मनः स्थितिरपि न घटेत । अत: संकोचनीयोऽयं चन्द्रादितोऽपि संकोच्यतामित्याह सर्वेश्वरस्येति ।