पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३२ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५. विज्ञाने य आनन्दे यो हृदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमन्तम् । १०. वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदेवतम् । नाडी तेषां निवन्धनम् । यो वाचि यो वक्तव्ये योऽग्नौ यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ११. हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतम् ; नाडी तेषां निबन्धनम् । यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । १२. पादावध्यात्म गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम् : नाडी तेषां निबन्धनम् । यः पादे यो गन्तव्ये यो विष्णौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतममयमशोकमनन्तम् । क्षेत्रज्ञ उच्यते ' इत्युक्तोऽन्तरात्मा वा । यः क्षेत्रज्ञे--सञ्चरतीत्यत्र, क्षेत्रज्ञशब्दस्य परमात्मवाचित्वे, स्वस्मिन्नवस्थित इति स्वमहिमपतिष्ठितत्वमुक्तं भवति । वक्तव्यं शब्दः । अग्निः देवता । विष्णुः उपेन्द्रः । त्रिविक्रमवान् पादेन्द्रियाद्यधिष्ठातृत्वं तस्य । 'यद्विष्णुक्रमान् क्रमते', 'विष्णोः क्रमोऽस्यभिमातिहे ' त्यादिश्रुतेः । विष्णौ सञ्चरतीति विष्णुशब्दः इन्द्रानुजत्वेनावतीर्णविग्रहपरः । यः सञ्चरतीति यच्छब्दस्य नारायणपरत्वात् यो विष्णाविति वैश्यधिकरण्यनिर्देशात् ; रूपमस्य शुक्ल इति न्यायेन असमानविभक्तिनिर्देशे सति विशिष्टवाचिशब्दस्यापि विशेषणमात्रपरत्वोपपत्तेश्च । विष्णुशब्दस्यापि विग्रह विशिष्टभगवद्वाचित्वे पूर्ववत् स्वमहिमप्रतिष्ठत्वमर्थः । चतुर्मुखादीनां तु अवतार- रूपत्वश्रवणाभावात् स्वमहिमप्रतिष्ठितत्वं तत्रानुपपन्नम् । " सृष्टिं ततः करिष्यामि त्वमाविश्य प्रजापते', 'तवान्तरात्मा मम च ये चान्ये देहि संज्ञिताः' इति सात्तिकोपबृंहणेषु चतुर्मुखादीनां भगवदनुप्रविष्टत्वदर्शनाच्च । - --