पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २३३ १३. पायुरध्यात्म विरसर्जयितव्यमधिभूतं मृत्युस्तवाधिदैवतम् । नाडी तेषां निबन्धनम् । यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्द यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपासीताजगरममृतमभयमशोकमनन्तम् । १४. उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम् : नाडी तेषां निवन्धनम् । य उपस्थं य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो ह्रदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति. सोऽयमात्मा। तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तयाम्येप योनिः सर्वस्य। -- आनन्दयितव्यमिति स्त्रीपुंसशरीरस्थ आत्मा विवक्षितः । अत्र प्रजापति- शब्द: चतुर्मुखव्यतिरिक्तविषयः । त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः' इति पृथगुपदेशदर्शनात् ; चतुर्मुखस्य महत्तत्त्वाधिष्ठातृत्वप्रतिपादनादर्थान्तरे संभवति तस्यैव पुनः प्रतिपादनपरत्वकल्पनायोगाच्च । एवं समस्तचिदचिद्वस्तुप्ववस्थितस्य भगवतो व्याप्तैः घटादावाकाशव्याप्तिसाम्यव्यवच्छेदार्थम् अन्यत्रासंभावितान् मङ्गळगुणविशेषानाह एष सर्वज्ञ इति । व्याप्यसर्ववस्तुसाक्षात्कर्तेत्यर्थः । सर्वेश्वरः साक्षात्कृतस्य सर्वस्य नियन्ता । एषः सर्वाधिपतिः नियाम्यस्य स्वामी ! न केवलं रक्षकत्वमात्रमधिपतिशब्दार्थः; मातापितृसंरक्ष्यस्य पुत्रस्य तत्पतिकत्वव्यवहाराभावात् । जगच्छरीरकत्व सिध्द्यर्थ ईश्वरशब्दोक्तनियमनमन्तःप्रवेशपूर्वकमिति दर्शयति एषोऽन्तर्यामीति । एषः योनिः 1 तत्पतिकत्वेति । न हि पुत्रं प्रति पितुर्मातुश्च पतित्वेन व्यवहार इति । श्रुतप्रकाशिकायां तु, 'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अन्यकार्यशतं कृत्वा भर्तव्य। मनुरवीत्' इति मातापितृरक्षके पुत्रे मातरपितरौ प्रति पतित्वव्यवहारप्रसङ्ग इत्युक्तम् । 30