पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

.. -- २३४ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप, ५. सर्वसौख्यैरुपास्यमानः; न च सर्वसौख्या'नुपास्यति। वेदशास्त्रैरुपास्य- मानः न च वेदशास्त्राण्युपास्यति । यस्यान्नमिदं सर्वम् न च योऽन्नं भवति। अतः परं सर्वनयनः प्रशास्ता अन्नमयो भूतात्मा 1. सांख्यान्युपास्यति. सर्वचिदचिदच्छरीरकत्वात् तस्योपादानमित्यर्थः । सर्वसौख्यैः नानाविधसौख्योपेतैर्देवादिभिरित्यर्थः। वेदशास्त्रैरिति । वेदशास्त्राणां भगवदुपासने प्रमाणतया करणत्वं विवक्षितम् । वेदशास्त्राणीति । अशास्त्रवश्य इत्यर्थः । अन्नम् अदनीयम् : संहार्यमित्यर्थः । अतः परमिति । भूयोऽपि तन्माहात्यमुच्यते इत्यर्थः । यद्वा अतः उक्तगुणकत्वात् परं केवलं स एव सर्वस्मादधिक इति वक्ष्यमाणगुणैरन्वयः । सर्वनयनः सर्वकार्याणां नेता=निर्वोढा । प्रशास्ता प्रशासितृत्वेन निर्वोढा । न तु राजनियुक्तपुरुषवत् प्रशासनीयत्वेन निर्वोढेत्यर्थः । तमात्मानमित्यात्मशब्दनिर्दिष्टस्य परमात्मनः सर्वान्तरात्मत्वेन आत्मत्वकाष्ठा प्रतिपादयति अन्नमय इत्यादिना ।। भूतपरिणामरूपदेहोऽन्नमयः । स च सर्वेश्वर इत्यर्थः । भूतात्मा भूतानां शरीरकारणभूतानामपि सर्वसौख्यरित्यत्र बहुव्रीह्यादरणम् , उपरि, 'सर्वसांख्यानुपास्यती' ति. पाठाभिप्रायेण । • सर्वसौख्यान्युपास्यती ' ति पाठे तु इहापि कर्मधारय एव । सोख्यैरुपास्यमानत्वं नाम स्वयमेव सौख्यैरस्य त्रियमाणत्वम् ! सौख्यभागितया पुंसामतिशयोऽन्यत्र। परमात्मविषये तु सौख्यानामपि तत्संबन्धादतिशयः। अद्भुतानन्दरूपतत्संबन्धात् गुणभूतानामानन्दानामतिशयो भवति । यदाहुः- 'गुणायत्तं लोके गुणिषु नियतं मङ्गलपदं विपर्यस्तं हस्तिक्षितिधरपते तत् त्वयि पुनः । गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुमीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥' इति । उपास्यतीत्येतत् उपास्त इत्यर्थे छान्दसम् । असु क्षेपे इति धातुर्वा । नोपास्यति नोपक्षिपति ; न स्वयं स्वसंनिधिं प्रति आनयतीति । सर्वमिदमनायासप्राप्त सर्वसौख्य इत्यर्थाभिप्रायम् ; न तु तत्संकल्पाभावेऽपि तस्य तानि भवन्तीत्यर्थकम् ; 'इच्छत एवं तव विश्वपदार्थसत्ते'त्येतद्विरोधात् । अतः परमिति । ततो यदुत्तरतर मिति श्वेताश्वतरोपनिषदीव इह अतःपदं व्याख्येय- मिति भावः । परशब्दस्य उत्कृष्टार्थकत्वे सर्वनयन इत्यादिपुल्लिङ्गानुरोधेन पर इत्येव श्रूयेत । अतोऽपि अतइति पदमेवं नावधिसमर्पकमिति ध्येयम् । शरीरकारणभूतानामिति । .