पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

+ , . , २३६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५, आनन्दमयो लयात्मा। आनन्दमय इत्येतदुपपादयति लयात्मेति । लयस्यात्मा । आत्यन्तिकप्रलयरूपस्य मोक्षस्य आत्मा सत्ताहेतुः; निर्वाहकः । मोक्षप्रदत्वादिलक्षणादैश्वर्यप्रकर्षात् निरति. शयानन्दप्रचुरः परमात्मेत्यर्थः । तैत्तरीयोपषिदि हि 'अन्योऽन्तर आत्माऽऽनन्दमयः । इति आनन्दमयं प्रस्तुत्य, 'यतो वाचो निवर्तन्ते' इत्यन्तेनास्य निरतिशायानन्दयोगमुपपादयत् वाक्यजातम् , ' सोऽकामयत बहु स्यां प्रजायेय', 'तदनुपविश्य- विज्ञानञ्चाविज्ञानञ्च', 'एष ह्येवानन्दयाति', 'भीषाऽस्माद्वातः पवते' इति जगत्कारणत्व - चिदचिदन्तरात्मत्व - कृत्स्नप्रशासितृत्ववत् अनन्यसाधारण्येन (णेन.) आनन्दयितृत्वेनापि निरतिशयानन्दयोगित्वमुपपादयति । ननु चक्षुरध्यात्ममित्यादिपर्यायेषु, 'यः प्राणे यो विज्ञाने य आनन्दे । इति जीवधर्मस्यानन्दस्य प्रकृतत्वात् तस्येह प्रत्यभिज्ञानात् तद्विकार उक्तोऽयमानन्दमयः; न तु परमात्मा। आनन्दप्रकर्षस्य चित्तप्रलयरूपस्तैमित्यहेतुत्वात् लयात्मकत्वञ्चोपपन्नमिति चेत्--- नैतदुपपद्यते । 'तमात्मानमुपासीत ', 'एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिः' इत्यादिना आत्मत्वेन प्रतिपादितस्य सर्वेश्वरस्य आत्मशब्देनैव भूतेन्द्रियादीनामन्तरात्मतयाऽभिहितम्य जीवानन्दविकारत्वायोगात् । तैत्तरीयोपनिषदि, एष ह्येवानन्दयातीति जीवानन्दयितृत्वेनोक्तस्यानन्दमयस्येह प्रत्यभिज्ञानात् । इहापि, 'य आनन्दे सञ्चरती' ति जीवानन्दस्य तदधीनत्वावगरात् । अत एवानन्द (मय? ] स्य स्वानन्दयितव्यजीवधर्मविकारत्वायोगात् , तत्र च 'एतमानन्दमयमात्मानमुपसंक्रामती'- त्यानन्दमयम्य प्राप्यत्वोक्त्या ततः प्राप्यान्तरानुक्त्या च परमप्राप्यस्य तस्यैवाऽऽनन्द- आनन्दमयो लयात्मेति । प्रलयादौ पूर्वकर्मापादितान्यादृशलयाः जीवाः स्वयमेव परमानन्दात्मनि परमात्मनि लयार्थं मोक्षे प्रयतन्ते । ईशलयनिर्वाहकत्वात् स स्वयमानन्दमय इति ज्ञायते । अनानन्दमयत्वे ह्यपुरुषार्थत्वात् तत्र लयं न कश्चित् काङ्क्षेत् । किंतु अत्यन्तविलयं विना पौन पुन्येन सृष्टी यादल्लममानन्दमनुबुभूषुः प्रादुर्भावपर एव स्यादिति भावः । ऐश्वर्यप्रकर्षात् निरतिशयानन्दप्रचुर हति । 'युवा स्यात् साधु युवाध्यायक. . -स एको मानुष आनन्दः' इति श्रवणादस्मन्मते अनुकूलानां सर्वेषामानन्दशब्दवाच्यत्वात् आनन्दमयवल्लीगतं जगत्कारणत्वाद्यनेकविशेषपरं वाक्यं सर्वमपि तस्याऽऽनन्दमयस्य आनन्दांशानां निरूपकमेविति भावः । - )