पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

मूर्धादौ ध्यातुरङ्गे कृतमिह चुबुकान्ते तु वैश्वानराङ्गं सर्वं प्रादेशमाने तदवयवनियता नामक्लृप्तिस्तथाऽन्या । भाव्यञ्चात्रापमृत्युं जयति च लभते चायुरित्यन्यदेवं सत्यप्येषा त्वदाप्त्यै श्रितरम ! विहिता साम्नि या सैव विद्या ॥ १६०

वेद्यादित्वं यथोरःप्रभृतिषु हि तथा ध्यातुरङ्घयादि तेऽङ्ध्रया- द्युक्तं प्रादेशमात्रम्तदसि मिततया त्वं घुमुख्यैः प्रदेशैः । इत्थं छान्दोग्यगीतं यजुषि गदितमेतच्च वैकल्पिकं स्यात् न्यायोऽसौ नामक्लृप्तावपि तदिह रमावास ! विद्येयमेका ॥१६१

१६१ श्रीमन् ! अत्यान्नमेवं पृथगिति गदिते ह्यल्पमंशान्तरैश्चा- युक्तं व्यस्तकवेदिष्वित इह कथितप्रायमन्नं फलं तत् । यत् साम्ग्न्युक्तं समग्रम् विकलभवदनुध्यानदोषापनुत्ते- र्भङ्गी प्रादेशमात्रागुणफलकथनं वाऽऽयुराप्त्यादिवादः ।।

एकेनोपास्यमुक्तं यदिह तदितरध्यातमुक्तं परत्र प्रायो दृष्टः कथांशः श्रुतिषु बहुभिदो दृप्तबालाविवाग्वत् । पूर्णोपास्त्यर्थवाद. स इति न भवतु स्वार्थ नैर्भर्यमत्र __ स्याद वा तत् कल्पभेदाद् घटितमुपदिश श्रीश ! नस्त्वं त्वदिष्टम् ॥१६३

कामः कर्मापि गन्धो रस इति सकलाभ्याप्तिपूर्णो ह्यवाक्को स्यादादर्तव्यहानेरथ तु भविहृदि श्रीश ! सूक्ष्मे निविष्टः । आकाशात्मा च भास्वद्वपुरसि धृतिसंकल्पयोः सत्य एवं प्राणाङ्गस्ताण्डिवाजिस्फुटघटितगुणाकुष्टशाण्डिल्यभोम्यः ।।

मानोमथ्यादिरास्तां हृदयकुहरगस्यास्य दुःसंघटः स्यात् धर्मोऽयं सर्वकामप्रभृतिरिति रमावास ! शङ्कापनुत्त्यै । ज्यायस्त्वामङ्गतस्ते सुघटितमखिलं प्राप्यरूपं गुणौघं हार्दत्वेऽप्याह सामश्रुतिरथ सुलभत्वञ्च हृत्संगमोक्त्या ।। १६५