पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २३७ एकत्वं नास्ति, द्वैतं कुतः? . मयशब्देन प्रत्यभिज्ञानादात्यन्तिकप्रलयरूपमोक्षनिर्वाहकत्वस्यैव लयात्मशब्देन वक्तुं योग्यत्वात् । अस्यामेवोपनिषदि, ' य आनन्दमेवास्तमेति , तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येती 'ति जीवानन्दस्य तुरीयादर्वाचीनत्वेन वक्ष्यमाणत्वात तुरीयस्य तुरीयातीतस्य [ परमप्राप्यतया वक्ष्यमाणत्वाच्च परमप्राप्यतया श्रुतिप्रसिद्धस्यानन्दयस्य तुरीयातीतत्वेन तुरीयादर्वाचीन- क्षुदानन्दविकारस्वानुपपत्तेश्च। एवं व्याप्यत्व-निर्वाह्यत्व-तुरीयानतीतत्व-क्षुद्रत्वैः आत्मत्वनिर्वाहकत्वपरमप्राप्यत्वतुरीयातीतत्वैश्च विरुद्धस्वभावत्वात् पूर्वापरवाक्यस्थानन्दानन्दमयशब्दौ चातिदूरभिन्नार्थौ । न च जीवानन्दशरीरकः परमात्मेति वाच्यम्- 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । इति वाङ्मनसागोचरस्य ब्रह्मसंबन्धित्वश्रवणात् ; जीवानन्दस्य स्वसंबन्धित्वेन सर्वप्राणिमनस्संवेद्यत्वाञ्च भिन्नार्थयोरपि(१) पूर्वापरवाक्ययोरिव आनन्दानन्दमयशब्दयोर्भिन्नार्थत्वं युक्तम् । तस्मात् आनन्दमयो लयात्मेति वाक्यस्य यथोक्त एवार्थः । एवं सर्वान्तरस्यानन्दमयशब्दवाच्यस्य सर्वेश्वरस्य लयात्मत्वप्रसङ्गेन जगदप्ययस्थानभूतस्य तस्य चिदचिद्विलक्षणत्वानुपपत्तिम् तद्गतविकारादिहेयसंस्पर्शनच्च आशङ्क्य परिहरति एकत्वं नास्ति द्वैतं कुत इति । सर्वजगदुपादानस्य सर्वाप्ययस्थानस्यापि (अतः परमित्यादरेवमप्यर्थः स्यात् - उक्तरीत्या ग्राह्यग्राहकतदभिमानि देवता-ग्रहण- कर्तृजीवाद्यन्तर्यामिभूतस्य परमात्मन उपासनायां कृतायाम् , अतः परम् उपासनानन्तरं ग्राह्यग्राहकादिरूपान्नमय-प्राणमय-मनोमय-विज्ञानमयक्रमेण आनन्दमये स्वात्मनि मोक्षस्य निर्वाहको भवति स परमात्मेति । एवञ्च एकत्वं नास्तीत्याद्युपरितनवाक्यं मोक्षदशायाः किञ्चिद्रूपेण वैचित्र्यप्रदर्शनप्रवृत्तमिति । ) ननु परमात्मनः चिदचिद्वैलक्षण्यस्य तृतीयखण्ड एव व्युत्पादितत्वादत्र पुनः किमिति तद्वचनमित्यत्राह लयात्मत्वप्रसङ्गनेति । प्रासङ्गिकमत्रैतत्कथनमिति भावः । ननु एकत्वं नास्तीत्यादिपर्यालोचने शून्यवाद एष श्रुतितात्पर्यमवसीयते । तथा हि- न तावदिदमेकत्वं निषिध्यमानं स्वसजातीयरहितस्वरूपम् । सिद्धान्ते तादृशपरमात्मसद्भावेन तन्निषेधायोगात् । तथा श्रुत्यर्थवर्णने द्वैतं कुत इत्येतदसंगतेश्च | सजातीमद्वितीयसद्भावे द्वैतनिषेधायोगात् । एवञ्च संख्यारूपमेव निषेध्यम् । तच्च धर्मिणि सति निषेद्धुमशक्यमिति धर्मिनिषेध एव +