पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३८ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५. सर्वेश्वरस्य प्रकृतिपुरुषाभ्यां स्वरूपैक्यं नास्ति । तस्य द्वैतं कुतः। चिदचिद्गतभेदान्वयः कुतः । महदहङ्कारादिकार्यभेदो जन्मजराद्यवस्थाभेदो देवमनुष्यादिजातिभेदः शुक्ल- कृष्णादिगुणभेदः गमनागमनादिक्रियाभेदः खुरपुच्छश्रृङ्गाद्यवयवभेद इति अचिद्गतं सर्वविधं बाह्य द्वैतम् , सुखदुःखमोहरागद्वेषलोभभयशोकमदमानमत्सरादिकमान्तरं चिद्गतं द्वैतमपि सर्वेश्वरे न प्रसङ्गमर्हतीत्यर्थः । नन्वेकत्वसंख्याऽपि नास्ति । कुतः सजातीयविजातीयभेद इति अर्थ इति न वाच्यम् - "एष सर्वज्ञ एष सर्वेश्वरः" इत्यदिभिः ज्ञानेश्वर्यादिगुणानां प्रमाणान्तराप्रतिपन्नानाम् , कृत्स्नस्य जगतः तद्विभूतित्वस्य च विहितत्वात् । विहितस्य च पर्यवसानम् । एवमेकस्यैवाभावे द्वयादेः का प्रसक्तिरिति द्वैतं कुत इत्युच्यते । मर्त्यं नास्ति इत्यादिकमपि तत्तनिषेधपरं सत् सर्वशून्यत्वमेव ख्यापयति । न भवतीत्यनुक्त्वा नास्तीति प्रयोगः अत्यन्ताभावे ह्यावेदयति ; न तु भेदम् । एवञ्चोपक्रमे, न सन्नासन्न सदसत् इतीदमपि सदादिसर्वनिषेधपरमेव । तृतीयखण्डारम्भे असदित्येतदपि अभावार्थकमेव; तथा प्राचां व्यवहारदर्शनात् । अत एव निर्वाणमनुशासनमिति निर्वाणपदमपि साधु संगच्छते । निर्वाणो दीप इत्यादाविव निर्वाणं ह्यभाव एव । स एषानुशास्यमान इति तदर्थः । अतः शून्यवाद एव सुबालश्रुत्यर्थ इतीदृशीमाशङ्कामुपक्षिपति नन्वित्यादिना । नन्विति प्रश्नद्योतकम् । अर्थ इत्यन्तेन प्रश्नसमाप्तिः। इति न वाच्यमिति तत्खण्डनम् । ननु विहितस्य निषेधायोगादिति कथम् ? एकस्मिन् काले स्थितस्य कालान्तरे निषेधरूपशून्यवादे दोषाभावात् । सर्वज्ञ इत्यादिना प्रस्तुतस्यैव अतः परमित्यादिनाऽनुवादपूर्वकं पश्चात्काले लयात्मेति लयो वर्ण्यते इत्यस्तु इत्यत्राह अनेकेत्यादि। छान्दोग्ये, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम्; तस्मादसतः सज्जायत इति । कुतस्तु खलु सोम्यैवं स्यादिति होवाच ' इत्येवं कालविशेषे शून्यमात्रपरिशेष इति वादस्यापि खण्डनेन सद्रूपवस्तुसद्भावस्य प्रलयेऽपि स्थापनेन सत्कार्यवाददर्शनात् एवम्भूतनानाश्रुतिसिद्धार्थबाधेन शून्यवादस्य श्रुत्यर्थत्व- वर्णनायोगात् । एवं शून्यवादेऽपि अभावोऽस्ति न वा । नास्ति चेत् सतः सद्भाव इष्टो भवति । अभावोऽस्ति चेत् , स एकोऽनेको वा । अभावे संख्या न भवतीति चेत् तत् अनुभवविरुद्धम् । अस्ति चेत्, एकत्वं नास्ति द्वैतं कुत इत्यादिकमनुपपन्नमित्यादिकमपीह भाव्यम् । विहितस्य च निषेधायोगादिति । द्वैतं कुत इति वाक्यं न सर्वचत्वादिरूपद्वैतनिषेधकम् । तथा सति विधायकवाक्यस्यासत्यार्थप्रतिपादकतया अप्रामाण्यापत्तेः । एवमप्रामाणिकार्थप्रतियोगिकाभावस्य पारमार्थिकताया दुर्वचतया स्वयमप्यप्रमाणत्वापत्तेः । विहितायाः क्रियायाः निषेधे विकल्पेन वाक्यद्वयस्य प्रामाण्यम् । वस्तुनि विकल्पायोगात्तु एकतरस्याप्रामाण्यं दुर्वारम् । यदा यत्र यद्विधिः, तदा तत्र तनिषेधायोगेऽपि देशान्तरे कालान्तरे च तन्निषेधो न दोषायेति