पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

" .. सुबालोपनिषत् २३९ मर्त्यं नास्ति, अमृत कुतः? नान्तःप्रज्ञो नबहिःप्रज्ञो नोभयतःप्रज्ञो निषेधायोगात् । अनेकवाक्यप्रतिपन्नस्य एकवाक्येन बाधायोगात् । प्रथमवाक्यावगतस्य च चरमवाक्येन बाधायोगात् । गुणविशेषविधानस्य सामान्यशब्देन बाधायोगात् । विशेषनिषेधे सामान्यनिषेधसंकोचस्य युक्तत्वाच्च । अतो यथोक्त एवार्थः । मर्त्यं नास्ति अमृतं कुत इति । मर्त्यत्वं नास्ति ; अमृतत्वं कुतः । प्रसङ्गे सति हि प्रतिषेधः । मर्त्यत्वमिति सांसारिकस्वभावानामुपलक्षणम् । संसारित्वप्रसङ्गाभावात् परमात्मनो जीवात्मन इव तद्विनाशरूपममृतत्वं नास्तीत्यर्थः । एवं चिदचिद्वैलक्षण्यमुक्त्वा कल्याणगुणेषु प्रथमप्रतिपादितं सार्वज्ञ्यमादरातिशयात् प्रपञ्चयति नान्तःप्रज्ञ इत्यादिना । अन्तरेव प्रज्ञा यस्य सोऽन्तःप्रज्ञः । अव्भक्ष इतिवत् अवधारणगर्भोऽयं निर्देशः । नान्तःप्रज्ञः । बाह्यमपि जानातीत्यर्थः । नवहिःप्रज्ञः । न बहिरेव जानाति अपित्वन्तरपि जानातीत्यर्थः । कूपकच्छपः कूपाद्बर्हिन वेत्ति । भूतलस्थः पुरुषः कूपान्तर्गतं न जानाति । सर्वेश्वरस्तु नैवम् ; अपितु सर्वपदार्थानामन्तर्बहिश्च जानातीत्यर्थः । नोभयतःप्रज्ञः । यद्यपि चेत--तर्हि देशकाल विशषस्वीकारात् कथमेकत्वस्य द्वैतस्य वा निषेधः । कथन सर्वश्न्यवादः? नित्यञ्च सर्वज्ञत्वादिकं न कदापि तदधिकरण एवं निषेद्धुं शक्यम् । युक्त्यन्तरमाह अनेकेति । यद्यप्येकप्रमाणवाक्यप्रतिपन्नमप्यशक्यनिषेधम् । अथापि अनेकवाक्यप्रतिपन्नतया भूयसान्न्यायेन विधिरेव बलीयानिति भावः । असञ्जातविरोधत्वादुपक्रमप्राबल्यादप्येवमित्याह प्रथमेति । सामान्यनिषेधस्य विहितव्यतिरिक्त विषयकत्वस्यैव युक्तत्वादपि न विहितविशेषनिषेध इत्याह गुणविशेषेति । विशेष निषेधे सामान्यनिषेधस्य पर्यवसानादप्येवमित्याह विशेषनिषेध इति । न च विधिस्थल एवं छागपशुन्यायेन सामान्यविशेषपरता ; न निषेधस्थल इति वाच्यम् - तत्रापि, 'बार्ताकं न भक्षयेत् ,श्वेतवार्ताकं न भक्षयेत्' इत्यत्र विशेषनिषेधपर्यवसानस्य संप्रतिपन्नत्वात् । निषेधम्य प्रतियोग्यनुयोगिसापेक्षतया द्वैतसिद्धौ सर्वथा द्वैतनिषेधायोगात् विशेषजिज्ञासायां विशेषनिषेधस्योपजीव्यत्वात् । लोकपि तथा तात्पर्येण बहुलं प्रयोगदर्शनात् । ननु एकत्वं नास्तीत्यादेः, आनन्दमये लयं प्राप्तस्य जीवस्य आनन्दमयेन सह स्वरूपैकत्वं न भवति । राज्ञो भृत्यस्येवात्यन्तद्वैतं तु नतराम् । पूर्वमेव तस्यान्तर्यामितया अपृथक्थितेः । मुक्तस्य मर्त्यं मरणादि न भवति । अमृतं तु 'आभूतसंप्लवं स्थानममृतत्वं तु भाष्यते इत्युक्तं नतराम् । कर्माधीनजन्मन एवाभावेन मरणामृतयोरुक्तयोरप्रसक्तेः इत्यर्थोऽस्तु - नान्तःप्रज्ञ इत्यादिना च, 'अन्तःप्रज्ञा भवन्त्येते सुखदुःखमन्विताः' इत्युक्तवृक्षादिकरूपजन्मभेदा विष्णु- . .