पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५. नप्रज्ञानघनो नप्रज्ञो नाप्रज्ञः, अपि नो विदितं वेद्यं नास्ति । परिच्छिन्नरूपायपेक्षया अन्तर्गतब (अन्तर्ब?) हिर्भागौ विधेते, तथापि परमात्मनः सर्वगतत्वात् बहिर्भागो नास्ति ; तदभावात् तदपेक्षान्तर्भागश्च नास्तीति नोभयतःप्रज्ञः; अपितु सर्वगतः सर्वं जानातीत्यर्थः । नप्रज्ञानघनः न घनीभूतज्ञानः । धनत्वं बहुलत्वम् । बाहुल्यच्च प्रसृमरद्रव्यस्य करतलादिप्रतिहतिकृतम् । यथा रविकिरणादेः। अन्तःप्रतिहतिहेतुकधनीभावनिषेधात् प्रतिहतिः निषिद्धा भवति । अप्रतिहतज्ञान इत्यर्थः । नप्रज्ञः प्रकृष्टं ज्ञानं प्रज्ञा । अपरोक्षज्ञान प्रकृष्टज्ञानम् । इन्द्रिययोगाभ्यासादिजन्यज्ञानरहित इत्यर्थः । नाप्रज्ञः तथाऽपि न प्रकृष्टज्ञानशून्य इत्यर्थः । अपितु हेतुनिरपेक्षस्वाभाविकसर्वसाक्षात्कारवानित्यर्थः । नो विदितं वेद्यं नास्तीति । तस्य सर्वश्वरस्य विदितमतीतज्ञानविषयो नास्ति । वेद्यम् आगामिज्ञानविषयश्च नास्ति । किंतु -- 1 पुराणोक्ताः अन्तःप्रज्ञादिशब्दवाच्या जीवस्य न भवन्ति मुक्तावित्युच्यते, न प्रज्ञानघन इत्यादिना मुक्तस्य जाग्रत्सुप्तसुषुप्तवैलक्षण्यमुच्यते । अपि नो इत्यादिना च तस्य सार्वश्यम् | एतन्निर्वाणमिति च, 'निर्वाणमय एवायमात्मा ज्ञानमयोऽखिलः' इत्युक्तरीत्या आनन्दरूपता । तथाच आनन्दमये लीनस्य सार्वत्रिकसार्वकालिकज्ञानभोगसाम्यात् तदविशेषात् लयत्मतेति पूर्वोक्तविवरणरूपत्वमुपरितनसंदर्भस्येति चेन्न सर्वनयन इत्यादेः लयात्मेत्यन्तस्य परमात्मपरत्वात् , नान्तःप्रज्ञ इत्युपरितनप्रथमान्तानामपि तत्परत्वैचित्यात् मध्यवाक्यस्यापि तद्विषयकत्वस्यावश्यकत्वात् । अन्यथा एकत्वं नास्ति इति अद्वैतमतनिषेधः ; द्वैतं नास्तीति द्वैतमतनिषेधः ; तेन विशिष्टाद्वैतमतसिद्धिरित्यादिकथनस्याप्यापत्तेः । नान्तःप्रज्ञ इत्यादौ अस्तीत्यप्रयोगात् नञो भेद एवार्थः, न संसर्गाभावः । एवं तादृशतादृशज्ञातृभेदे कथिते सर्वथा अज्ञत्वमापतेदिति नाप्रज्ञ इति तन्निषेधः कृतः। तर्हि कियत् तज्ज्ञानमित्यत्र सर्वविषयकमिति अपि नो विदितमित्यादिनोच्यते । ननु नाप्रज्ञ इत्यत्र प्रज्ञा नाम प्रमा। अप्रज्ञत्वं भ्रान्तत्वम् । तन्निषेध इत्यर्थोस्तु' इति चेत् - अत्यन्ताप्रसक्तनिषेधस्तदा स्यादिति । अपि नो विदितमित्यत्र वर्तमानवेदनविषयनिषेधाभावा,