पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् इत्येतनिर्वाणमनुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। इति सुबालोपनिषदि पञ्चमः खण्डः ।। 400- सर्व नित्यज्ञानगम्यमित्यर्थः । इत्येतन्निर्वाणमनुशासनम् । एवं सर्वेश्वरस्य गुणविभूतिप्रकर्षवैशिष्टयविषयमिदमनुशासनं मोक्षहेतुः । इति वेदानुशासनम् वेदपुरुषस्योपदेशः । अभ्यासः समाप्तिद्योतकः ; आदरकृतो वा ॥ इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेयस्य श्रीसुदर्शनार्यस्य कृतिषु सुबालोपनिषव्द्याख्याने पञ्चमः खण्डः ।। * ॥ श्रीसुदर्शनार्यमहादेशिकाय नमः ॥ || शुभमस्तु ।।

एतदुपरि इदं भाष्यं नोपलभ्यते । तावता एतदुपरि नेयमुपनिषदिति तु न मन्तव्यम् । प्रत्यक्षविरोधात्; एतद्भाष्यश्रीभाष्यादिविरोधाश्च । उपरितनानि वाक्यानि हि तत्रतत्रोदाहृतानीति । न सर्वनिषेधे तात्पर्यम् । तत् सिद्धं परमात्मनः सर्ववैलक्षण्यप्रतिपादकमिदं सर्वमिति । इतः पर सुबालोपनिषदि एकादश खण्डाः शिष्यन्ते। तेषां भाष्यादर्शनात् परिष्कारमात्रं भविष्यति । विवरणकृतां न्यासार्याणां प्रणम्य पदाम्बुजे विनतनिखिलाचार्य श्रेणिर्विधित्सति विस्तरम् । अनधिगतवान् अन्यां व्याख्यामशेषपरिष्कृति- प्रवणहृदयः षष्ठात् खण्डात् स्वकीयकृतेर्मनाक् || 3