पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ - श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. ५. प्रथमे खण्डे नसन्नासन्नसदसत् किश्चित् प्रलयकालस्थितं प्रत्यबोधि । तदेव सृष्टिपश्चाद्भाविनं प्रलयमुपवर्ण्य, परस्तान्नसन्नासनसदसदिति अन्ववादि । तत्र, - दिग्देशकाले. ध्वस्तातिः' इति पाणिनिस्मरणात् कालार्थकत्वस्यापि संभवात् परस्तादित्यस्य, 'तमः परे देव एकीभवती'त्युक्तैकीभावानन्तरकाले इत्यर्थान्नीकारे, येन देवेनैको भावः तमस उक्त, स एव नसन्नासन्नसदसदित्युक्त इति प्रतीयत एव । तमसस्तत्रैकीभूततया देवस्यैव प्राधान्यात् तस्यैव नसदित्यादिना ग्रहणौचित्यात् । प्रथमखण्डे नसदित्यादिनोक्तादेव, 'तस्मात् तमः संजायत' इति तमआविर्भावोक्तेश्च । परस्तादित्यस्य , 'आदित्यवर्णं तमसः परस्तात्' इत्यादिश्रुतिशैलीमनुरुध्य देशपरत्वेऽपि, प्रकृतिमण्डले सृष्टिं विधाय विहारपरः परो देवः प्रलये एतव्द्यापारादुपरतः परस्तात् नसदित्याद्युक्त प्रकारेणावतिष्ठत इत्युक्तं भवति । एतावता स परो देव इति प्रतिपन्नम् । तृतीयखण्डे स एव चेतनाचेतनवैलक्षण्येन मन्तव्यात्मत्वेनापदिष्टः । तदेवात्मत्वमुपपादयितुं प्रवृत्य चतुर्थे हृदयान्तः तस्य स्थिति मनसि निधाय जीवस्य जाग्रदाद्यवस्थाः कथयित्वा, तत्र ग्राह्यग्राहकादिषु सर्वत्रायमात्माऽस्ति, हृदयाकाशे चेति तादृशात्मोपासनं प्रञ्चितम् । अथ तस्येतरवैलक्षण्यमुपवर्णितम् , 'एष सर्वज्ञ' इत्यादिना । 'षाडगुण्याद् वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात् बोधात् संकर्षण सन् हरसि वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नः सर्गधर्मौ नयसि च भगवन् शक्तितेजोऽनिरुद्धो बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥ इत्युक्तरीत्या द्विकद्विकरूपेण विभक्तगुण मध्यं ज्ञानम् , ऐश्वर्यम् , पालनसामर्थ्यञ्च सर्वज्ञ इत्यादिना निर्दिश्य तेन व्यूहत्रयमुपक्षिप्य स एवान्तर्याम्यात्मा सर्वष्टिस्थितिसंहारकारणमित्युपपाद्य मुक्तौ लयोऽपि तत्रैवेत्युपरि उपदिष्टम् । स च जगन्निमित्तोपादानभूतो मोक्षप्रदः परो देव आनन्दमयः, स यश्चायं पुरुष, यश्वासारादित्ये, पुण्डरीकाक्षः पुरुषोत्तमो नारायण इति च तत्र सुबोधमेव । अथापि उक्तोपासनफलभूतपरमपदप्राप्तिप्रकारपरिशीलनार्थमुपरि प्रवृत्तेयमुपनिषत् षष्ठे खण्डे परमपदस्वरूपमुपवर्णयन्ती पूर्वोक्तं कारणं नारायण इति च मुक्तकण्ठमाह । तेन तत्स्थानमेव परमं पदमिति प्रतिष्ठापितं भवति । तदा च परस्तान्नसदित्यत्र परस्तात्पदार्थोऽपि स्फुटं प्रदर्शितो भवतीति । तत्र कोऽसो देवः परस्तात् स्थितः । यदि च स परस्तात् स्थितः, तदा तदाधारदेशादेः सद्भावावगमात् असदेवेदमग्र आसीदित्यादि कथम्? अथ सर्वसृष्ट्यारम्भे स देशो नास्ति, तर्हि तदाधारकः स देवोऽपि नास्तीति अन्यदेव किञ्चित् जगत्कारणं वक्तव्यम् । कारणं तु ध्येय