पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २४३ , ॥ अथ षष्ठः खण्डः ।। नैवेह किञ्चनाग्र आसीदमूलमनाधारम् । इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः । इति श्रवणात्, तदेव मुक्तये उपास्यम् , न तु प्रागुक्तो देव इत्याशङ्कायाम् -, न सृष्ट्यारम्भकाले सर्वत्र पदार्थासत्त्वम् , नापि तस्माद देवादन्यः कारणम् , येनान्योपासनं प्रसृजेत । स एव तु देवः सृष्टिस्थितिसंहारकारणमिति दशमखण्डपर्यन्तेन भागेनोपदिश्यते नैवेहेति । वाक्यमिदम् अन्तर्याम्यधिकरणे श्रीभाष्ये उपात्तम् । इह तमोमण्डले | अमूलमिति अकारणकोक्तत्वपि आधारसापेक्षनित्यपदार्थान्तरवत् साधारत्वप्रतीतिः स्यात् , तद्वयवच्छेदाय अनाधारमिति ! उत्पत्तौ स्थिती च परसापेक्षकार्यवस्तुविलक्षणम् , स्थितौ परसापेक्षनित्यपदार्थविलक्षणश्च यत् प्रथमकारणम् , तत् इह प्रकृतिमण्डले किञ्चिद्रूपेण नासीदित्यर्थः । तथा च नित्यविभूती तस्यानेकात्मना तदाऽवस्थानेऽपि प्रकृतिमण्डले तथावस्थानाभावात् असद्वा इदमग्र असीदिति प्राकृत कार्यात्मना दृश्यमानस्यैतन्नामरूपविभागराहित्यवर्णनमुपपन्नम् । परस्तादित्युक्तो देशश्च न कदाऽपि जायते, नापि नश्यति ; नापि तस्य प्रकृतं देवं प्रति आधारता; अनाधारकत्वात । प्रत्युत स देशोऽपि तद्देवधार्य एव । कामं तु तदीयो दिव्यमङ्गलविग्रहः तद्दंशाधारको भवितुमर्हति । तावता न काचित् क्षतिरित्युक्तं भवति । अत्र किञ्चिदिति पदं, इमाः प्रजाः प्रजायन्त इति वाक्यविवक्षितकार्यान्तर्गतकिञ्चित्परम् । इमाः प्रजाः प्रजायन्त इत्यत्र तत इति पूणीयम् । जनिकारणं स्पष्टं निर्दिशांत दिव्यो देव एको नारायण इति । यद्वा प्रजायन्त इत्यन्तस्य पृथग्वाक्यत्वं विनैव निर्वाहे वाक्यभेदो न युक्तः । यदाहुः, 'संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते ' इति । अतः, 'दिव्यो देव एको नारायणः इमा: प्रजाः प्रजायन्ते' इतीदमेकं वाक्यम् । न च प्रजायन्त इति बहुवचनानुपपत्तिः ; · सुवर्णं खदिराङ्गारसवर्णे कुण्डले भवतः' इति विधेयानुसारेणापि तिड्डिभक्तिवचनप्रयोगस्य महाभाष्ये दर्शितत्वात् । उदाहतञ्चेदं न्यायपरिशुद्धौ । अत्र इमाः इति प्राकृतपदार्थं निर्दिश्य कारणे तद्वैलक्षण्यं दिव्य इत्यादिना दर्शितम् । दिवि नित्यविभूतौ भवो दिव्यः । परस्तादिति प्रागुक्तविवरणमेतत् । देव इति परे देवे इति प्रागुक्तपरामर्शः । प्रजारूपेण जननं तस्य लीलायै केवलम् । एवं जायमानोऽपि द्योतमान एव, अकर्मवश्यत्वादित्युच्यतेऽनेन । ब्रह्मरुद्रादीनामीदृशं देवत्वं नास्तीति एक इत्यनेनोक्तम् । अयमेक एव देवः ; अन्येषां तु जीवत्वात् देवत्व न पुष्कलनिति च भावः । उपादानातिरिक्तनिमित्तकारणव्यवच्छेदो वा एक इति । देवान्तरशङ्कां दूरत एव निरस्यता नामावशेषेण तं निर्दिशति नारायण इति । एलृतन्नामार्थविशेषाश्च रहस्यमयेजनुसंधेयाः । .