पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ श्रीवीरराघवाचार्यविर रचितपरिष्कारयुक्ता सुबालोप. ६. चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रश्च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यश्च नारायणः । त्वक् च स्पर्शयितव्यश्च नारायणो मनश्च मन्तव्यश्च नारायणो बुद्धिश्च बोद्धव्यश्च नारायणोऽहङ्कारचाहङ्कर्तव्यश्च नारायणश्चित्तश्च चेतयिव्यश्च नारायणो वाक् च वक्तव्यश्च नारायणो हस्तौ चादातव्यश्च नारायणः । पादौ च गन्तव्यञ्च नारायणः । पायुश्च विसर्जयितव्यश्च नारायणः । उपस्थश्चा- नन्दयितव्यञ्च नारायणः । धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायणः । आदित्या रुद्रा मरुतो वसवोऽश्विनावृचो यजूंपि सामानि मन्त्रोऽग्नि- राज्याहुतिर्नारायणः । उद्भवः संभवो दिव्यो देव एको नारायणः । पूर्व ग्राहकेषु चक्षुरादिषु, ग्राह्येषु च दृष्टव्यादिषु यस्यात्मन उपासनमुक्तम् , सोऽयमेव नारायण इत्याह चक्षुश्चेत्यादिना । एवञ्च प्रजारूपेणेव चक्षुरादरूपेण स जात इहेति ज्ञापितं भवति । यद्यपि मनोबुद्ध्यहङ्कारचित्तशब्दाः एकस्यैवान्तःकरणस्यावस्थाभेदविशिष्टस्य वाचकाः इत्युक्तं श्रीभाष्ये, 'अध्यवसायाभिमानचिन्तावृत्तिभेदात् मन एव बुद्धयहङ्कारचित्तशब्दैर्व्यपदिश्यते' इति - तथान्यत्र पूर्वखण्डभाष्यगतिरेवानुसर्तव्या । धाता सर्वस्य स्रष्टा। विधाता श्रुत्यादिरूपशासनकर्ता । कर्ता पुण्यपापोदासीनरूपजीवकर्मप्रधानकर्ता । विकर्ता तज्जनित जैवसुखदुःखानुरूपलीलारसानुभावी । हेयसुखदुःखानुभवरूपविकारस्तु न तस्य भवति । आरोपस्तु स्यात् । यथोक्तं नामसहस्रभाष्ये, "स्वार्थहर्षशोकाद्यभावेऽपि परार्थतत्प्रसक्तिरदोषः" इति । अर्थः = फलम् । प्रसक्तिः = आरोपः । परफलभूतदुःखाद्यारोपमानं भगवता स्वस्मिन् क्रियत इति तदर्थः । आराध्य देवता-तत्प्रतिपादकवेद तदाराधनादीनामपि तन्मयत्वमाह आदित्या इत्यादिना ! उद्भवः उत्पत्तिस्थानम् ; संभवः प्रलयस्थानम् : 'प्रभवप्रलयस्थान' मिति गौतोक्तेः । अथवा उद्भवः अचेतनगतः स्वरूपविकारः। संभवः चेतनस्य स्वभावविकारो देहप्राप्त्यादिः । लोके मातापित्रादिभावेन ।