पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २४५ माता पिता भ्राता निवासः शरणं सुहृद्गतिनारायणः । विराजासुदर्शनाजितासोम्यामोघाकुमाराऽमृतासत्यामध्यमानासीरा शिशुरासूरासूर्यास्वरा ( शिशुसूर्याऽसुराभास्वती ? ) विज्ञेयानि नाडीनामानि दिव्यानि । गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाचार्धदिवसाश्च कलाः कल्पाचोर्ध्वश्च दिशश्च सर्व नारायणः ॥ . मिषतां तद्भावः कर्माधीनः कदाचित्त्कश्चेति सोपाधिकः ; नारायणस्य तु निरुपाधिक इत्याह मातेत्यादिना । ननु न स्वरूपेण मातृत्वादिकामहोच्यते ; किंतु लोके मात्रादिरूपेण प्रतिपन्नानां नारायणान्तर्यामिकत्वम् ; चक्षुश्च द्रष्टव्यश्चेत्यादिना अन्तर्यामित्वनिबन्धनस्य सामानाधिकरण्यस्यैव प्रक्रमात् । एवमेव चोपबृंहितमिदं गीतासु- 'पिताऽहमस्य जगतो माता धाता पितामहः।' गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहत.' इति इति चेत् --- स्वरूपेण मातृत्वादिपरमप्युपबृंहणमस्ति : यथा नारशब्देन जीवानां समूहः प्रोच्यते बुधैः । तेषामयनभूतत्वान्नारायण इहोच्यते ॥ तस्मानारायणं बन्धुं मातरं पितरं गुरुम् । निवासे शरणचाहुर्वेदवेदान्तपारगाः ॥' इति । अत एव नामसहस्रभाष्ये शरणपदभाषणावसरे एतद्वक्यमुपात्तम् , 'निवासः शरणं सुहृद् गतिनारायणः' इति । एतदनुसारेणैव पूर्व धाता विधातेत्यादीनामपि साक्षादेव सामानाधिकरण्यं स्वीकृतम् , यत्र बाधः तत्र परं परम्परयेति कृत्वा । मात्राद्यनुकूलजनान्तर्यामित्वमिव प्रतिकूलान्तर्यामित्वमप्यस्य अविशिष्टमिति क एतद्वर्णनकृतो विशेषः । साक्षादन्वव्यर्थविशेषकथने च महिमातिशयः प्रदर्शितो भवति ; अन्येषां मातृत्वादिकमेतदधीनमित्यर्थोऽप्यर्थसिद्धो भवतीति तादृशोपबृंहणभावः । सर्वेन्द्रियकन्दभूतहृदयसंबन्धिन्यो याः चक्षुरादिनाब्य आत्माधारत्वेन प्राड् निर्दिष्टाः यो नाड्यामिति, तासामपि नारायणात्मकत्यविवक्षया तासां नामानि पठति विराजेति । 'तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च' इत्युक्तरीत्या सर्वं कार्यं तदधीनमित्युच्यते गर्जतीत्यादिना। प्रधानदेवतानां प्रकृति प्राकृतानामिव कालपरिणामादीनामप्यविशेषं तदन्तर्यामिकत्वमुच्यते वरुण इति । कला चन्द्रकलादिः। कलिः अन्तिमयुगदेवता । न केवलमेतत्सर्गा- -