पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. ६. पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ।। तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।। तद्विप्रासो विपन्यवो जागृवांसः समिन्धते। विष्णोर्यत् परमं पदम् । तदेतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् । ॥ इति सुबालोपनिषदि षष्ठः खण्डः ।। न्तर्गतम् , पूर्वोत्तरसर्वसर्गादिगतमधि स इत्युच्यते पुरुष इति । एवं तावत् प्राकृतप्रपञ्चाभेदनिर्देशमुखेन प्रपञ्च प्रति आत्मत्वं तदीशानवादिरूपमुपक्षिप्य परस्तादिति प्रागुक्तपरमपदैश्वर्यमपि तस्य विस्तृणाति उतेति । तत्र नामरूपविभागभाजां बहूनां सद्भावादेव एतत्खण्डारम्मे इहेति निर्देशः तद्वथावृत्तये कृत इति ध्येयम् । अमृतत्वस्येशानः मोक्षप्रदः । यद्वा न विद्यते मृतत्वं कस्यापि यत्र, तत स्थानममृतत्वम् । तस्येशान इति । यत् अमृतत्वम् अन्ने प्राकृतभोगे सति नातिरोहति नातिशयेन भवति । प्रकृतिमण्डलेऽपि प्रत्यक्षितपरतत्त्वानां प्रशमितराग- द्वेषादिकालुष्याणाम् , अमृतत्वञ्चानुपोष्य ' इति सूत्रितम् , 'अमृत इह भवती' ति श्रुतं किञ्चिद्रूपममृतत्वमस्तीति विमृश्य अति इति प्रयुक्तम् । यद्वा अमृतत्वाख्यं परं पदम् अन्नेन, त्रैगुण्यं षड्गुणाढ्य च द्विधान्नं परिकीर्तितम् । त्रैगुण्यमन्ने बद्धानामितरेषामथेतरत्' इत्युक्तेन भगवद्रूपेण ज्ञानशक्त्यादिगुणषट्कपूर्णेनान्नेन अतिरोहति अधिकं प्रतिक्षणमेधते इत्यर्थः । तस्य स्थानस्य सदा पश्यत्सूरिसंकुलत्वमाह तदिति । तदिति अप्राकृतार्थकम् । तेन विष्णुपुराणोक्त (२.८.) ध्रुवाधारभूत सत्यलोकार्वाचीन-प्राकृतविष्णुपरमपदरूपसंनिकृष्टलोकव्यावृत्तिः । सदेति मुक्तव्यावृत्त्या सूरय इति निलसूरीणामेव ग्रहणम् । परमपदं वर्णयति दिवीति । दिवि अन्तरिक्षे आततं व्याप्तं चक्षुः जगच्चक्षुः सूर्य इव ; ज्योतिर्मयमिति यावत् । एवं मुक्तसेव्यमानमपि तदित्याह तदिति । तत् तत्र बहुश्रुतिप्रसिद्धे, विप्रासः, 'विष्णु क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते तत्त्वदर्शी' इति तत्त्वज्ञानसंपत्त्यश्रीनविप्रभावा:, 'श्रोत्रियस्य चाकामहतस्य' इत्युक्ताः क्रमेण प्राप्तपरमपदाः विपन्यवः विविधपनायनपरायणाः जागृवांसः अत्यन्ताविर्भूतबोधाः समिन्धते परिपूर्णब्रह्मानुभवपरीवाहभूतकैङ्कर्यारर्थादृतानन्तदिव्यदेहा दीव्यन्ति, यदेव विष्णोः परमं प्रकृष्टान्तररहितं पदम् , अन्यानि तु विष्णुपदाने अर्वाचीनानीति । एवभिह पूर्वोपदिष्टोपासनप्राप्यं परमपुरुषस्य विष्णोर्नारायणस्य नित्यं स्थानं असद्वा इत्यादिपूर्वोक्तश्रुत्यविरोधेन श्रावितम् ।। इति श्रीवात्स्यसच्चकवर्ति वीरराघवाचार्यकृतिषु उपनिषद्भाष्यपरिष्कारे सौबालषष्ठखण्डपरिष्कारः ।।