पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

ताण्डिप्रोक्तैर्गुणैस्त्वां युतमपि च मनोवेगिनं कामरूपं सर्वाश्चानुप्रभूतं दिश इह मिनुमः सत्यधृत्यात्मकञ्च । सर्वं खल्वित्युपासा प्रथममनिहिता साम्नि तत्स्थान उक्ता सत्यं ब्रह्मेत्युपासा श्रितरम ! चिदचित्सर्वयन्तुस्तवात्र ।।

महोपनिषत् ब्रह्मेशानौ निषिध्य प्रलय इतरवत् प्रोच्य नारायणैक- स्थैर्यं तस्मात् सहाङ्गैरुपजनिमनयोर्वर्णयन्त्यां महत्याम् । श्रीमन् ! ब्रह्मादिमात्मन् ! उपनिषदि कथं देवतापारमार्थ्यं नेच्छेत् कश्चित् त्वयि ; स्यात् सुगममिह परं पाठयाथात्म्यविद्भिः ।।१६७

अष्टाक्षरनारायणोपनिषत् प्राग व्यष्टेः ब्रह्मरुद्रादि च भवति यतो यस्तदेतत् समस्तं श्रीमन् ! अन्तर्बहिः सन् अनघ ! शुभ ! तवैतस्य नारायणस्य । आदर्शं श्रीमदष्टाक्षरपदमखिलश्लाघ्य (मबहिर्भूत) तारं त्रिसन्ध्यं जप्त्वा पापात् प्रमुक्ताः प्रणिहितमनसो भुक्तिमुक्ती भजन्ति ॥ १६८

(अथ व्याख्याता इव अव्याख्याता अप्युपनिषदः सन्ति समाहता इतीदं कतिपयोपनिषदर्थसंग्रहेण दिङ्मात्रेण प्रदर्श्यते ।) श्रीनृसिंहपूर्वतापनी क्षीरोदे शेष भोगे शयितमहिपतिक्षोणिभृत्कल्पवृक्ष ! श्रीजुष्टं त्वां नृसिंह मनसि कलयितुं मन्त्रराजं ब्रवीति । कल्याणत्वद्गुणौघप्रकटकममृतत्वादिसर्वार्थहेतुं शक्तिन्यासाङ्गमन्त्राद्यखिलपरिकरं तापनीयश्रुतिर्नः ॥ दृष्टाऽऽदौ मन्त्रराजंं रविशशिशिखिभिर्नेत्रिणि श्रीनृसिंहे ध्यात्वा च स्वात्महोमं शकनमधिगतो व्यक्तसृष्टौ विरिञ्चः ।