पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् . ॥ अथ सप्तमः खण्डः ।। अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरम् , यः पृथिवीमन्तरे सञ्चरन् , यं पृथिवी न वेद; यस्यापः शरीरं योऽपोऽन्तरे सञ्चरन् यमापो न विदुः यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद; यस्य वायुः शरीरं योवायुमन्तरे सञ्चरन् यं वायुर्न वेद; ननु प्रथमखण्डे, यस्य तमसः प्रलये देवे एकीभावः, तस्मात् भूतागुत्पत्तिर्वर्णनात् तमस- एव उपादानत्वं प्रतीयते । देवस्य तु, ' मृत्युमसृजन्' इत्युक्तरीत्या निमित्तत्वम् । तृतीयखण्डे असद्वा इत्यत्रापि तस्योपादानत्वे न स्पष्टम् । पञ्चमखण्डे च चक्षुर्द्रष्टव्यादिसर्ववस्तुगततया ततो भिन्नत्वेनैव स आत्मा निर्दिष्टः ! षष्टे तु देवे सर्वकार्याभेदवर्णनात् कार्याभिन्न कारणं प्रतीतं तत् उपादानमिति च ज्ञेयं भवति । न च चक्षुरादिषु वर्तमानत्वेन प्रागुक्तस्य तदभेदः संभवति, येन समानाधिकरणनिर्देशो मुख्यः स्यादित्याशङ्कायाम्-~-सर्वस्यापि वस्तुनः तं प्रति शरीरत्वात् , शरीरवाचिनाच्च शब्दानां शरीरिपर्यन्तार्थकत्वस्य लोकवेदसंप्रतिपन्नत्वात् सामानाधिकरण्यं मुख्यमेव । अतः तत्तद्वस्तुविशिष्टं ब्रह्म कार्य कारणञ्च भवतीति हेतोः षष्ठदर्शितमुपादानत्वमप्युपपन्नमिति बुबोधयिषया सर्वस्य तच्छरीरत्वं प्रपञ्चयति सप्तमे अन्तश्शरीर इति । जायमानानां प्रजानां सर्वासां शरीरिस्यान्तः हृदयमुहायामस्य वर्तमानत्वात् अस्य शरीरस्य तत्रत्यस्य प्रत्यगात्मनश्च तं प्रति शरीरत्वात् , ' इमाः प्रजायन्ते दिव्यो देव एक' इति सामानाधिकरण्यमुपपन्नम् । अस्मिन् शरीर इव, येषामिदं संघातरूपम् , तेषु पृथिव्यादिभूतचक्षुरादिकरणेषु सकारणेष्वपि तच्छरीरत्वमविशिष्टमिति सर्वमपि सामानाधिकरण्यं ममिति भावः । न केवलं शरोरतया सर्वप्रतिपन्नवस्तुमात्रे तस्य आत्मतया स्थितिः, कार्यकारणात्ममु सर्वेषु पदार्थष्वपि तस्य तथाभाव इति ज्ञापयितुं सृष्टिक्रमव्युत्क्रमेण पृथिव्यादि - प्रधानान्तसर्वविवक्षया प्राधान्येन केषाञ्चित् तच्छरीरन्वमाह यस्य पृथिवीत्यादिना। बृहदारण्यके काण्वमाध्यन्दिनभेदेन द्विविधेऽपि अन्तर्यामिब्राह्मणे किञ्चिदभेदेनायमर्थ एव प्रत्ययादि । एषां पर्यायाणां शरीरात्मभावप्रतिपदनार्थप्रवृत्तत्वात् शरीरमिति तस्य प्रथमतो निर्देशः । तत्र शरीरमावे परमात्मनः (तत्तद्वस्त्वभावदेशवर्तित्वरूप) बहिर्वर्तित्वांशस्याप्रयोजकतया अन्तर्वर्तित्वमात्रमाह यः पृथिवीमन्तरे सञ्चरन् इति । पृथिवीमन्तरे अन्त पृथिव्याम् । सप्तम्यर्थे द्वितीया; ' य एतस्मिन् सर्वस्मिन्नन्तरे संचरती' ति पूर्वानुसाररात् । सञ्चरन्निति तिष्ठन्नित्यर्थकम् ; विभुनः परमात्मस्वरूपस्य चलनायोगात् । अन्तर्वर्तित्वञ्च यद्देशावच्छेदेन पृथिव्यादिकमस्ति, तत्र देशे सर्वत्र तेन सह वर्तमानत्वम् , आत्मनोऽन्तरेऽपि स्थितेर्वक्तव्यत्वादित्यन्यत्र विस्तरः । यं पृथिवी न वेदेति । प्रत्यक्षायोग्यस्यानुपलम्भमात्रेण न निषेध इति व्यक्तये एतदुक्तिः। ननु देवतारूपपृथिव्याः वेदितृत्वयोग्यता स्यात् । अचेतनायास्तु पृथिव्याः तदभावात् किमर्थं न वेदेत्युक्तिरिति चेत्- 1