पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. ७. यस्याकाशः शरीरं य आकाशमन्तरे सञ्चरन् यमाकाशो न वेद ; यस्य मनः शरीरं यो मनोऽन्तरे सञ्चरन् यं मनो न वेद; यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे सञ्चरन् य बुद्धिर्न वेद, यस्याहङ्कारः शरीरं योऽहङ्कारमन्तरे सञ्चरन् यमहङ्कारो न वेद : यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन् यं चित्तं न वेद; यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सश्चरन् यमव्यक्तं न वेद; यस्याक्षरं शरीरं योऽक्षरमन्तरे सञ्चरन् यमक्षरं न वेद; यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् य मृत्युन वेद; एष सर्वभूतान्तरा-


परमात्मवेदनाविषये अचेतनतुल्यं चेतनस्याप्यसामर्थ्यमिति ज्ञापनार्थमेतदुक्तिरिति । भूतगकथनं तन्मात्रोफ्लक्षणम् । मनआदिचतुष्टयमप्येकान्तःकरणप्रभेदः । पूर्ववत, महदहङ्कारग्रहणं वा तत्कथनमिन्द्रियान्तराणामप्युपलक्षणम् । अत्र आत्मपर्यायो नोक्त , स बृहदारण्यके,य आत्मनि' इति, यो विज्ञाने' इति चोक्त इहापि ग्राह्यः । न चाक्षरपदेनेह आत्मनिर्देश एवेति वाच्यम् -- अचेतनमध्यपाठेन तदयोगात् । अक्षरात् परतः परः' इति अक्षरशब्दस्य अचेतनेऽपि प्रयोगात् । पूर्वम्, 'अक्षरं तमसि लीयत' इत्युक्त्या अक्षरस्य तमसि लयार्हाँचेतनविषयत्वावसायाञ्च । न हि चेतनोऽचेतने लीयते । न च लीयमानस्य तस्य क्षरत्वात् अक्षरत्वं कथमिति वाच्यम् - अचेतनसंबन्धिपरिणामान्तरात् पूर्वं न क्षरतीत्येतावता तद्वाचोयुक्तेः । अस्तु वा- तमोदशायां तदत्यन्तमस्फुटमभूत् । द्रव्यमिदं चेतनाचेतनात्मकमिति विवेकार्हता ततोऽस्तीति लक्षणया अक्षरपदेन तदुक्तिरिति । तदुक्तं प्राक् भाष्य एव, “चिद्गर्भवस्तुनि अक्षरशब्द उपचरितः" इति । एवंसति चेतनविशिष्टाचेतनस्य परमात्मशरीरतक्तो विशेषणेऽपि तत् उक्तं भवतीति कथ्यतामिति चेत्--काममस्तु । एवम् ' अन्तश्शरीरे' इति प्रथमवाक्येऽपि आत्मनां शरीरत्वमभिप्रेतं स्यात् ; गुहायामिति जीवग्रहणसंभवात् । एवम् , 'सर्वभूतान्तरात्मा' इति वक्ष्यमाणपदेनापि तत्सिद्धिः । मृत्युरिति स्थानप्रमाणात् तम उच्यते । 'तमः परे देव एकीभवति' इति प्रागुक्तमेव, मृत्युर्वै परे देव एकीभवतीति प्रसिद्धवन्निर्देक्ष्यते । ततोऽपि मृत्युस्तमः । तस्य मृत्युत्वं स्वयमविलयस्य सतः सर्वाचेतनपरिणामलयकरत्वात् नन्वेतान्ति चेत् अस्य शरीराणि, तर्हि तस्येदृशशरीरप्रापकाः पाप्मान परिसंख्यातुमशक्याः स्युः, तत्राह अपहतपाप्मेति । दिव्य इत्यनेन अप्राकृतदिव्यमङ्गलविग्रहसद्भाव एव एतच्छरीरभावोऽपि केवलतदिच्छाकृत इति भावः । इमं प्रपञ्चपरमात्मनोः शरीरात्मभावं वेदान्तप्रतितन्त्रसिद्धान्तमबुध्यमानाः प्रायो भेदश्रुतित्यागेन अभेदम् , अद्वैतश्रुतीरुपेक्ष्य भेदञ्चाद्रियमाणाः अपक्वबुद्धीन् भ्रामयन्ति । तस्मात् रहस्यमिदं न प्रस्मर्तव्यमिति अत्र श्रद्धाजननाय .