पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् त्माऽपहतपाप्मा दिव्यो देव एको नारायणः एतां विद्यामपान्तरतमाय ददौ । अपान्तातमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरा रैक्वाय ददौ । रैक्वो रामाय ददौ । रामः सर्वेभ्यो ददौ । इत्येवं निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। इति सुबालोपनिषदि सप्तमः खण्डः ॥ अथाष्टमः खण्डः ।। अन्तश्शरीरे निहितो गुहायां शुद्धः सोऽयमात्मा । प्रकृतार्थप्रापक गुरु परम्परामाह एतां विद्यामिति । ददावित्यत्र कर्वन्तराकथनात, चतुर्मुखस्यापि एतदनन्तरं ग्रहीतृतया वक्ष्यमाणत्व चौचित्यात् नारायणः कर्तत्यवमीयते । तस्य पूर्वप्रकृतत्वाच्च । अस्तु वा स एष इत्यारम्भं ददौ इत्यन्तमेकं वाक्यम् ; भेदे प्रमाणाभावात् । श्रीभाष्यादिषु नारायण इत्यन्तमात्र निर्देशः तावन्मात्रस्य तत्रोपयुक्तत्वात्। न तेन तत्र वाक्यसमाप्तिप्रसक्तिः । अपान्तरतमायेति । · अपान्तरतमो नाम वेदाचार्यः स उच्यते ' इति तस्यैव सर्ववेदवेदित्वं भारते भणितम् । तत्र हि, सांख्यस्य वक्ता कपिलः' इत्यादितत्तन्मतप्रवर्तकमहर्षीनपेक्ष्यास्य महिमा गमितोऽस्ति ] 'पाञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्' इति ततोऽतिशयितो नारायण एव, य इहापान्तरतमस्याचार्यो निर्दिष्टः इति । अपान्तरतमा इति भारतपाठः । एक्मत्यन्तरहस्यार्थभूतस्य शरीरात्मभववस्योपदेशेन पूर्वखण्डोक्तं सामानाधिकरण्यं निरूढम् । इति सौबालसप्तमखण्डपरिष्कारः । (-8) ननु सत्यस्मिन् शरीरात्मभावे सर्वमेतदुपपद्यते । स एव न स्वीकर्तुं शक्यते । तथासति अखिलहेयप्रत्यनीकत्वेनाभिमतस्य सकलहेयसंश्रयत्वप्रसङ्गात् । न च अपह्रतपाप्मा दिव्य इति तस्य दुःखहेतुभूतकर्मविरहवचनान्नायं प्रसङ्ग इति वाच्यम्-कर्माणां हि दु.खहेतुत्यम् आत्मनः शरीरसबन्धा पादनेन । तत्र यदि कर्मबलाद्वा अन्यथा वा शरीरपंबन्धविशेष प्राप्तः, तर्हि दुख्यत्वमर्जनीयम् । अन्तःशरीरे स्वेच्छया नियमनार्थं प्रविष्टस्यापि 3 पुरुषार्थयोगोऽवर्जनीयः । पूयशोणित दिमज्जने हि स्वेच्छाकरितमप्यपुरुषार्थ एव । ततश्चायं प्रश्नः समाधातुमशक्य एन लक्ष्यते यः खलु 'एको यस्यास्ति देहः स भवति विविधानन्तदुःखैकमोक्ता विश्वं देहः प्रमोश्चेत् स कथमतिपतत् विश्वदुःखनुभुतिम् ? इति । एवम् शङ्कायाम् 'शक्तयः सर्वभावानामचिन्त्याज्ञानगोचरा ' इति न्यायेन परं तत्त्वमिदं परमविलक्षणं शास्त्रप्रतिपन्नम् , न तत्र सामान्यतोदृष्टन्यायावतार इति तस्य सर्वदोषदुरत्वं मुक्तकण्ठं वक्तुमष्टमः खण्ड आरभ्यते । निहितो गुहायां शुद्ध इति । स्वयमयं निहितः 32