पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. ८. सर्वस्य मेदोमांसक्लेदावकीर्णे शरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवन्निस्सारे जलबुदवच्चञ्चले निःसृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्गं शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं विभ्राजमानमानन्दं तं पश्यन्ति विद्वांसः । तेन लये न पश्यन्ति ।। इति सुबालोपनिषदि अष्टमः खण्डः

शरीरे, न मे दुखलेशप्रसक्तिरिति । तदयं शुद्ध एवेत्यर्थः । शरीरस्य दु खहेतुत्वौपयिकानि विशेषणान्यभिधाय तथात्वेऽपि हेयप्रतिभटत्वमुदमुपपादयति सर्वस्येत्यादिना । अत्यन्तोपहते तत्तदवयवोपनतैः रोगादिभिः मलमूत्रादिसंगेन चोपप्लुते । निसृतम् निश्शेषेण प्रविष्टम् । अन्तर्बहिर्याप्तम् । अचिन्त्यरूपम् अनुमानदूराद्भुतमङ्गल विग्रहम् । असङ्गम्। न मे कर्मफले स्पृहे ' त्युक्तप्रकारम् । तेजस्कायं ज्ञानस्वरूपम् । अरूपं रूपरसादिहेयरहितावरूपम् । अचिन्त्यम् स्वकीयदिव्यविग्रहवत् स्वयमप्यनुमानदूरम् । अशरीरम् स्वकर्मधीनशरीरविशिष्टविलक्षणम् । गुहायां हृदयाकाशे निहितम् अमृतम् एष ते आत्माऽन्तर्याम्यमृतः' इति अन्त:-स्थितादप्यमृतत्वेनोद्घुष्टम् अत्यन्तभोग्यभूतम् विभ्राजमानम् अनमन्नन्योऽभिचाकशीति' इत्युक्तरीत्या विशेषतो द्योत्तमानम् | न केवल मुक्तिमात्रम् ; दर्शनस्यापि संप्रतिपन्नत्वादत्र न संदेग्धव्यभित्याह आनन्दं तं पश्यन्तीति । गन्धर्वनगरं मेघमण्डले उत्प्रेक्षिता. नगराद्याकाराः । तद्वत् क्षणविशरणशीलस्यापि शरीरस्य चित्रभित्तिप्रतीवाशत्वमिति कश्चिदतिशयोऽस्ति । यथा भित्तेरभावे चित्रं न शक्यं लेखितुम् , तथा शरीराभावे हार्दों न शक्य उपासितुम् । अत स्तत्र गुहानिहितमुपासितं परिच्छिन्नं लये जाते न पश्यन्तीत्याह तेन लये न पश्यन्तीति : इदञ्च लयविषयकजिज्ञासोत्पादनाय आचार्येण प्रस्तुतम् । प्रक्ष्यति चेममेव विषयं समनन्तरमेव शिष्यो रैक्वः । वस्तुतः, लयपर्यन्तमेवमुपासनस्याऽऽवृत्तिरपेक्षितेति ज्ञापनायैतदुक्तिरिति भाव्यम् । इति सौबालाष्टमखण्डपरिष्कारः।