पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २५१ ॥ अथ नवमः खण्डः ।। अथ हैनं रैक्वः पप्रच्छ ---- भगवन् ! कस्मिन् सर्वेऽस्तं गच्छन्तीति । तस्मै स होवाच-चक्षुरेवाप्येति । यश्चक्षुरेवास्तमेति, द्रष्टव्यमेवाप्येति । यो द्रष्टव्यमेवास्तमेति, आदित्यमेवाप्येति । य आदित्यमेवास्तमेति, विराज! मेवाप्येति । यो विराज (1) मेवास्तमेति, प्राणमेवाप्येति । यः प्राणमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयनशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

एवं सर्वान्तर्वर्तिनोऽपि सर्वदोषदूरत्वमुपवर्य चक्षुराद्यात्मतया तदुपासनं स्थापितम् । एवमुपासीनस्य फलबुभुत्सया लयप्रस्तावानुरोधेन लयमधिकृतैव कृतं रैक्वप्रश्नमुक्षिपति अथ हैनमिति । सर्व चक्षु.श्रोत्रादिस्थानभेदेनोपासनप्रवृत्ताः सर्वे । यो यदुपासनप्रवृत्तः, तस्य तत्रैव लयः । अतः चक्षुरादिपर्यायेषु एकैकत्रापि, ' यश्चक्षुषि यो द्रष्टव्ये' इत्यादिना करण - तद्विषयतद्देवता - तन्नाडो - तन्निर्वाहकप्राण - तज्जन्यज्ञान - तज्जनितानन्द - तत्कन्दस्थानभूतहृदयाकाशस्यावस्त्विष्टकान्तवर्त्यात्मोपासनविधानात् तत्तद्वस्त्वन्तर्यामिण्येव स स उपासको लीयते । तेन परमगपदस्थ एव पुरुषे लयः संपद्यते इत्याशयेनःह तस्मै स होवाच चक्षुरेवेत्यादिना ! अत्र चक्षुरादिपदानि पूर्वखण्डपर्गनोपपादितरीत्या, 'चक्षुश्च द्रष्टव्यश्च नारायणः' इत्यत्रेव परमात्मपर्यन्तानि । अतः उपासिते चक्षुश्शरीरके परमात्मनि लीयते, तल्लय एव द्रष्टव्यशरीरकपरमात्मलयः। एवं तत्तदवच्छिन्नात्मनि उपासिते सर्वत्र लयो द्रष्टव्यः । विराजामिति आकारान्तपाठो युक्तः पूर्व तथा नाडीनामनिर्देशात् । अन्यथा तत्पर्यायतया विराद्रपदमिदमिति मन्तव्यम् । तुरीयमेवाप्येतीति। पूर्वं हृद्याकाशे इत्युक्तमेव स्थानप्रमाणदत्र तुरीयपदेन गृह्यते । तुरीयशब्दश्च ‘जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः' इत्यादी मूर्छितं प्रयुक्तः । जागरस्वप्नसुषुतिस्थानेषु त्रिषु सत्सु तुरीयं मूर्छास्थानम् । तदा हृदयाद् वियुज्य हृद्याकाश एवं जीवो वर्तत इति तदाकाशं तुरीयकम् । इह च चक्षुरादिपदवत् तुरीयादमपि परमात्मपर्यन्तम् एवमष्टकान्तरात्मन एवामृतत्वादिनोपासनस्य प्रागुक्तत्वात् तुरयि लीनस्य तत्र लय उच्यते तदमृतमित्यादिना । अत्र निर्बीजादप्रयोगः लयकष्टभूत - परवासुदेवात्मक - शुद्धपरमात्मस्वरूपस्य अमृतमित्यादिपदविवक्षितत्वज्ञापनार्थः । -