पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. ९. . " " श्रोत्रमेवाप्येति । यः श्रोत्रमेवास्तमेति, श्रोतव्यमेवाप्येति । यः श्रोतव्यमेवास्तमेति, दिशमेवाप्येति । यो दिशमेवास्तमेति, सुदर्शनामेवाप्येति । यः सुदर्शनामेवास्तमेति, अपानमेवाप्येति । योऽपानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्यति । यस्तुरीयमेवास्तमति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ।। नासामेवापेति । यो नासामेवास्तमेति, घ्रातव्य मेवाप्येति । यो घ्रातव्यमेवास्तमेति, पृथिवीमेवाप्येति । यः पृथिवीमेवास्तमेति, जितामेवाप्येति । यो जितामेवास्तमेति, व्यानमेवाप्येति । यो व्यानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ॥ जिह्वामेवाप्येति । यो जिह्वामेवास्तमेति, रसयितव्य मेवाप्येति । यो रसयितव्यमेवास्तमेति, वरुणमेवाप्येति। यो वरुणमेवास्तमेति, सौम्यामेवाप्येति । यः सौम्यामेवास्तमेति, उदानमेवाप्येति । य उदानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्द- अयं प्रश्नाशयः - यथोपासनं प्राप्तिः तत्वदन्यायसिद्धा । अतो यदुपास्यिते तत्र लीयत इति वक्तयव्यम् । चक्षुरादिनाशानन्तरश्च तं न पश्यन्तीत्युक्त्त या उपासिते लयः उपासकानां न सिद्धयतीति । समावेराशयस्तु -- चक्षुर्द्रष्टव्यादित्यादीनां बहूनामुपास्यतया बहुषु लय एकस्य कथं भवतीत्यपि विम्रष्टव्यम् । चक्षुरादीनामनेकत्वेऽपि चक्षुराद्यन्तर्यामिण उपास्यस्यैकत्वात् उपास्यपरिच्छेदार्थमेषामुपयोगेऽपि तस्यैकस्यैव मुख्योपास्यत्वात् तत्रैव लयो वाच्यः । अतोऽयमुपासकः चक्षुरेवाप्यति, न त्वन्यम् । न च द्रष्टव्यादिषु लयः कुतो नेति शङ्काप्रसक्तिः ; चक्षुर्द्रष्टव्यादीनामेकत्वादेतल्लयस्यैष तल्लयरूपत्वात् । एवमुपलभ्यमान कार्यविशिष्टोपासनविधानात् तत्तत्कार्ये लय आवश्यक इति न मन्तव्यम् । कार्यात्मनस्तस्य, निर्बौजस्य च तस्यैकत्वात् निर्बीजप्राप्त्यर्थतयैव एवमुपासनस्य विवक्षितत्वादितीति.ध्येयम् । एवं श्रोत्रमेवेत्यादिपर्यायष्वपि द्रष्टव्यम् । प्रतिपर्यायं स्त्रीलिङ्गशब्दाः नाडोविशेषपराः । तदनन्तरमप्ययस्थानत्वेन कथिताश्च प्राणविशेषा इति बोध्यम् । ।